Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 586
________________ ५६८ प्रमाणवात्तिकस्ववृत्तिटीका (१।३०७) अपेक्ष्य तत्स्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि ॥३०॥ इत्येषा पौरुषेय्यैव तद्धेतुग्राहिचेतसाम् । कार्यकारणता वर्णे धानुपूर्वीति कथ्यते ॥३०७॥ चित्तसमुत्थाना वाग्विज्ञप्तिः वर्णपदवाक्यानीति। तत्र सकारसमुत्थापक एतदुक्तम्भवति। सकारालम्बनं यदा [श्रोत्रविज्ञानं तस्मिन्नेवकाले]' अकारसमुत्थापनचित्तेनाकारो जनितस्तेनाकारस्सकारालम्बनश्च प्रत्ययः समानकालः। तत्र साकारालम्बनेन श्रोत्रविज्ञानेन सहकारिणाऽकारः स्वविषयं ज्ञानं जनयन् पूर्ववर्णोपाधिः प्रतीयत इत्युच्यत इत्यर्थः । तदेवं पूर्वज्ञानेन सहकारिणा जनितात्मज्ञानः। स इत्युत्तरो वर्ण: (1) कीदृशः श्रवणकाले। अपटुश्रुतिरित्यत्वरितं शनैः शनैरुच्चारितो यदा वो भवति। तदाऽपट्वी मन्दचारिणी प्रविभक्तवर्णग्राहिणी श्रुतिः श्रोत्रविज्ञानं यस्य शब्दस्येत्यपटुश्रुतिः । यस्यामवस्थायाम्विभक्ता वर्णा अवधार्यन्त इति यावत्। अति त्वरितन्तूच्चार्यमाणे विभक्तवर्णापरिच्छेदात् कुतः क्रमेण स्मृतिजननमित्यस्य सन्दर्शनार्थं। अपटुश्रुतिग्रहणं। स एवंभूतो वर्णः किंकारीति (1) आह। अपेक्ष्य तत्स्मृति पूर्ववर्णस्मृति । पश्चादाधत्ते। जनयति स्मृतिमात्मनि। स्वविषये । पारम्पर्येणेति द्रष्टव्यं । एतेन च स्वविषयाणि ज्ञानानि प्रति वर्णानां क्रमेण कारणतोक्ता । इत्यक्तेन क्रमेणैषा कार्यकारणता। वर्णेष्विति वर्णाधारा वर्णानामिति यावत् । पौरुषेयेप्येवं । पुरुषकृतैवानुपर्वीति लोके कथ्यते। किमपेक्षया वर्णानां कार्यता कारणता चेत्याह। तद्धतुग्राहिचेतसामिति । हेतवश्च ग्राहीणि चेति द्वन्द्वः। तेषाम्वर्णानां हेतुग्राहीणीति षष्ठीसमासः। । पश्चाच्चेतःशब्देन विशेषणसमासः । वर्णहेतवः क्रमेण यदि चेतांसि तेषां सम्बन्धन वर्णानां क्रमेण कार्यता। तैश्चेतोभिर्वर्णानाञ्जन्यत्वात् । तेषां वर्णानां ग्राहीणि यानि चेतांसि। तेषां सम्बन्धेन वर्णानां क्रमेण कारणता। वर्णैस्तेषाम्वर्णग्राहिणां चेतसां जन्यत्वात्। चित्तेत्यादिना व्याचष्टे। चित्तं समुत्थानं कारणं यस्या वाग्विज्ञप्तेस्सा तथोक्ता। वागेव विज्ञप्तिः परविज्ञापनात् (1) सा च त्रिधा लोक इत्याह । व त्यादि वर्णाः पदं वाक्यं चेत्यभिधानं यस्येति विग्रहः। तत्राक्षराणि वर्णाः । अर्थावच्छिन्नो वर्णसमदायः पदं। पदसमुदायो वाक्यं। तत्रेत्यादि सर इत्यत्र ___1In the margin.

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642