Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 589
________________ (२) कुमारिलमत-निरासः ५७१ निर्वृत्तिधर्मा भिन्नजननधर्मा च स हि वर्णस्वभावः पुरुषसंस्कारभेदभिन्नः क्रम इत्युच्यते। अन्यदेव ततो रूपं तद्वर्णानां पदापदम् । . कर्तृ संस्कारतो भिन्नं सहितं कार्यभेदकृत् ॥३०८॥ त्तिरुत्पत्तिः सैव धर्मो लक्षणं यस्य स्वभावस्येति विग्रहः। एतेन तद्धेतुचेतास्यपेक्ष्य वर्णानां कार्यत्वमुक्तं । तद्ग्राहिचेतांस्यपेक्ष्य कारणत्वमाह। भिन्नस्य विज्ञानकार्यस्य निर्वर्तनं जननं स एव धर्मो लक्षणं यस्य स्वभावस्येति विग्रहः। स एवंभूतो वर्णस्वभावः पुरुषसंस्कारभेदभिन्नः पुरुषप्रयत्नभेदभिन्नः क्रम इत्युच्यते । ननु क्रमो वर्णानां धर्मस्तेन कथं स एवंभूतो वर्णस्वभाव: क्रम इत्युच्यते। एवम्मन्यते (1) न युगपदुत्पन्नांनां क्रमोस्त्यप्रतीतेः। तस्माद् युगपदुत्प'न्नानामेव वर्णानां क्रमः । अयुगपदुत्पन्नाश्चेद् वर्णा इष्यन्ते त एव लोके क्रमो न वर्णेभ्योर्थान्तरभतोसावप्रतीतेः। नापि तेषां क्रम एको धर्मोऽसहभावात्। नापि प्रत्येकं धर्मः क्रमोप्रतीतेः। तस्मादयुगपदुत्पन्ना एव वर्णाः क्रम इत्युच्यते इत्युक्तं। केवलमेषां क्रम इति कल्पितोयं व्यवहारः। न च य एव सर इति पदे क्रमो लोके प्रतीयते स एव रस इति पदे। नापि क्रमव्यतिरिक्तें पूर्वापरवर्णानां स्वरूपं । तस्मात् प्रतिपदं वर्णानामन्यदेव स्वरूपं । लोकश्च सर इति पदाद् रसपदस्यान्यत्वमवधारयत्येव। तेन यदुच्यते म ण्ड ने न। "उत्पत्तिवादिनो वर्णाः कामन्ते सन्तु भेदिनः। न त्वसाधारणस्तेषाम्भेदोर्थज्ञानकारणं ।" (स्फोटसिद्धिः ३०) तस्यानवधारणात् संकेतकाले' चादृष्टत्वादिति (1) 201b तदपास्तं । यतस्सर इति वर्णक्रमाद् रस इति वर्णक्रमो भिन्न एवावधार्यते। नापिक्रमव्यतिरेकेण वर्णाः प्रतिभासन्ते। तस्मात् क्रमभेदावधारणमेव वर्णभेदावधारणं (1) केवलं रसपदाद् रसपदान्तरस्य भेद: सादृश्यान्नावधार्यते (1) अत एव संकेतकाले दृष्टत्वात् रसपदार्थप्रतिपादकं युक्तम् (।) एवमन्यस्यापि पदस्येति यत्किञ्चिदेतत्। एतदेव 1 दर्शयन्नाह। अन्यदेवेत्यादि। यतो वर्णानां स्वभावो यथोक्तः क्रम इत्युच्यते ततः कारणात्। तदिति सादृश्यादेकत्वेनाध्यवसितमपि रूपम्वर्णानामन्यदेव पदं पदं प्रतिपदं । किं कारणं (1) कर्तृसंस्कारतो भिन्नं यतः (1) समुत्थापकचित्तमेव कर्तृ तस्य शक्तिभेदाद् भिन्नं। सहितमिति पूर्वोत्तरक्रमेणो

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642