Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 561
________________ (२) कुमारिलमत-निरासः ५४३ यस्मात्। हेतावसम्भवेऽनुक्ते भावस्तस्यापि शक्यते । विरुद्धानाम्पदार्थानामपि व्यापकदर्शनात् ।। (२९१) यदि हेतोः साध्यविपक्षेऽभावः सिध्यत् साध्यव्यतिरेकं हेतुव्यतिरेको व्याप्नुयात्। न च तत्र तस्यासंभवे प्रमाणं पश्यामः। न चाविरुद्धो विधिः प्रतिषेधसाधनो युक्तोऽतिप्रसंगात्। न चै कत्र दृष्टस्यान्यत्र सम्भव एव पृथग्विरुद्धसहभाविनामपि दर्शनात्। अनित्यवत् प्रयत्नानन्तरीयकेतरयोन च तथा र्थस्य सत्यार्थत्वलक्षणस्य सिद्धेः किमन्वयेन। तत्साधनत्वाच्च लिङ्गस्य इष्टार्थसाधनत्वाच्च लिङ्गस्य व्यर्थमन्वयदर्शनं। कस्माद् (1) यथोक्तविधिना व्यतिरेकमात्रेणैव साध्यसिद्धेरिति ।' 1915 सत्यमेतदित्या चा र्यः। विपक्षाद्धेतोर्व्यतिरेके सिद्धे सति साध्यं सिध्येदिति सत्त्यमेतत्। यदि सत्त्यार्थताऽकृतकत्वविपक्षयोमिथ्यात्वकृतकत्वयोर्व्याप्यव्यापकभावः सिध्यत्। तदा कृतकत्वेन व्याप्तान्मिथ्यार्थत्वादकृतकन्निवर्त्तते। स तु व्याप्यव्यापकभावो विपक्षयोर्न सिद्धः। कि कारणं ।। यस्मात् मिथ्यात्वेऽकृतकत्वस्यासम्भवेऽसम्भवनिमित्तं बाधके हेतावनुक्ते सति। भावस्सत्त्वन्तस्याप्यकृतकत्वस्य मिथ्यात्वे शक्यते। अकृतकं च स्यान्मिथ्यार्थं चेति। (२६० ab) . ननु च मिथ्यात्वे कृतकत्वं दृष्टं (1) यत्र च कृतकत्वन्तत्र कथमकृतकत्वमिति (1) अत आह। विरुद्धानामित्यादि। विरुद्धानामपि पदार्थानामेकव्यापकदर्शनात् । यथा प्रयत्ना प्रयत्ननान्तरीयकाणामनित्यानामेकेन कृतकत्वेन व्याप्तिः । यदीत्यादिना व्याचष्टे। यद्यकृतकत्वाख्यस्य हेतोस्साध्यविपक्षे मिथ्यार्थत्वेऽभावः सिध्यत्तदा साध्यस्य सत्यार्थत्वस्य व्यतिरेकं मिथ्यात्वं। हेतुव्यतिरेकः हेतोरकृतकत्वस्य व्यतिरेकः कृतकत्वाख्यो व्याप्नुयात् । न च तस्याकृतकत्वस्य तत्र मिथ्यार्थतायामसम्भवे बाधकं प्रमाणं पश्यामः। अकृतकत्वादेव वेदस्य मिथ्यार्थतायामवृत्तिरिति चेद् (1) आह। न चेत्यादि। मिथ्यार्थत्वेनाविरुद्धस्याकृतत्वस्य विधिमिथ्यार्थताप्रतिषेधस्य साधनो युक्तः। कस्माद् (1) अतिप्रसङ्गात्। एवं हि यस्य कस्यचिंद् विधानेन यस्य कस्यचिदभावः प्रतीयेत।। कृतके दृष्टस्य मिथ्यात्वस्याकृतके कथं वृत्तिरिति चेद् (1) आह। न चैकत्र कृतके दृष्टस्य मिथ्यात्वस्य पुनरन्यत्राकृतकेऽसम्भव एव (1) किन्तु सम्भव एव। किं कारणम् (1) पृथग्विरुद्धसहभाविनाम्पृथगिति

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642