Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 571
________________ (२) कुमारिलमत-निरासः ५५३ . अपि चेवं (1) मन्त्रा अपौरुषेयाश्चेति व्याहतम्पश्यामः। तथा हि॥ .. समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनं । युक्तं (1) यद्येते मन्त्राः कस्यचित् समयो यथा मत्प्रणीतमेतदभिम तार्थोपनिबन्धनं वाक्यमेवं नियुञ्जानमनेनार्थेन योजयामीति । परार्थपरतानुरोधेनान्यतो .. वा कुतश्चिद्धेतोः स्यात् । तदा मन्त्रप्रयोगात् कदाचिदर्थनिष्पत्तिर्युक्ता। कवि- .. समयादि (व) पाठकानां। अथापि भावशक्तिः स्यात अन्यत्राप्यविशेषतः ॥२९॥ न वै पुरुषसमयान्मन्त्रेभ्योर्थसिद्धिः (1) किन्तर्हि (1) भावस्वभाव एष (1) यदि न क्वचिन्नियुक्ताः फलदाः (1) शब्दानामभिप्रेतार्थवत्ता पौरुषेयी च स्यात् प्रमाणानुरोधिनी च प्रमाणासम्बादिनी चेति न विशेषं पश्यामो वैदिकानां शब्दानां लौकिकेभ्यः । वैदिकानां शब्दानां मन्त्रत्वादेवापौरुषेयत्वमिति दर्शयन्नाह। अपि चेत्यादि । व्याहतं परस्परविरुद्धं । तथा हि (1) मन्त्राणां कस्यचित्पुरुषस्य समयत्वे प्रतिज्ञाव्यवस्थापितत्वे सति कार्यसाधनं युक्तमभिमतकार्यसिद्धिर्मन्त्रप्रयोगाद् युक्तेति। ____ यद्येत इत्यादिना व्याख्यानं। एते मन्त्रा यदि कस्यचित् प्रभाववतः कर्तुः समयः स्यादिति वक्ष्यमाणेन सम्बन्धः । समयव्यवस्थापितत्वात्समय इत्युच्यन्ते। कथं पुनरसौ समयः कृत इत्याह। परार्थत्यादि। परार्थपरता परार्थप्रधानता। कृपालुतेति यावत्। तस्या अनुरोधेन । अन्यतो वा कुतश्चिद् यशःप्रभृतेर्हेतोः कृतः स्यात्। कीदृशोसौ समय इत्याह । यथेत्यादि । यथा मत्प्रणीतमेतद् वाक्यं (1) किं भूतम् (1) अभिमतार्थोपनिबन्धनं। मन्त्रस्य कर्तुरभिमतो योर्थो विधिविशेषः। आवाहनविसर्जनादिलक्षणः स निबन्धनं प्रवृत्त्यङ्गं यस्मिन् वाक्ये तत्तथोक्तं । एवमित्यनेनानुक्रमेण नियुंजानं प्रयुंजानं पुरुषमनेनार्थेन पुरुषाभिमतेन फलेन योजयामीति समयः स्यात्। तदा मन्त्रप्रयोगात् कदाचित् विधिसमाप्तौ। अभिमतार्थनिष्पत्तिः स्यात्। कविसमयादिब। यथा केनचित् काव्यं कृत्वैवं समयः कृतः (1) मत्प्रणीतं काव्यं यः पठति । तस्मै मयेदं दातव्यमित्यतस्तत्कृतकाव्यपाठकानां यथा प्रतिज्ञातार्थनिष्पत्तिस्तद्वत् ।। अथ भावशक्तिः शब्दस्वभावस्यैव सा तादशी शक्तिर्येनाभिमतम्फलम्भवति । न यथाभिमतात् पुरुषसमयात्। तदा स्यादन्यत्रापि। यथा कथंचित्प्रयुक्तान्मन्त्रादपि। किं कारणं (1) वर्णात्मकस्य मन्त्रस्याविशेषतः। नेत्यादि व्याख्यानं । न वै पुरुषसमयाद्धेतोर्मन्त्रेभ्योर्थ (सिद्धिः)। किन्तहि (1)भावस्य वर्णरूपस्य मन्त्रस्य स्वभाव एष (1) यदि न मन्त्राः कस्यचिद् ७०

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642