________________
(२) कुमारिलमत-निरासः
५५३ . अपि चेवं (1) मन्त्रा अपौरुषेयाश्चेति व्याहतम्पश्यामः। तथा हि॥ .. समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनं ।
युक्तं (1) यद्येते मन्त्राः कस्यचित् समयो यथा मत्प्रणीतमेतदभिम तार्थोपनिबन्धनं वाक्यमेवं नियुञ्जानमनेनार्थेन योजयामीति । परार्थपरतानुरोधेनान्यतो .. वा कुतश्चिद्धेतोः स्यात् । तदा मन्त्रप्रयोगात् कदाचिदर्थनिष्पत्तिर्युक्ता। कवि- .. समयादि (व) पाठकानां।
अथापि भावशक्तिः स्यात अन्यत्राप्यविशेषतः ॥२९॥ न वै पुरुषसमयान्मन्त्रेभ्योर्थसिद्धिः (1) किन्तर्हि (1) भावस्वभाव एष (1) यदि न क्वचिन्नियुक्ताः फलदाः (1)
शब्दानामभिप्रेतार्थवत्ता पौरुषेयी च स्यात् प्रमाणानुरोधिनी च प्रमाणासम्बादिनी चेति न विशेषं पश्यामो वैदिकानां शब्दानां लौकिकेभ्यः ।
वैदिकानां शब्दानां मन्त्रत्वादेवापौरुषेयत्वमिति दर्शयन्नाह। अपि चेत्यादि । व्याहतं परस्परविरुद्धं । तथा हि (1) मन्त्राणां कस्यचित्पुरुषस्य समयत्वे प्रतिज्ञाव्यवस्थापितत्वे सति कार्यसाधनं युक्तमभिमतकार्यसिद्धिर्मन्त्रप्रयोगाद् युक्तेति। ____ यद्येत इत्यादिना व्याख्यानं। एते मन्त्रा यदि कस्यचित् प्रभाववतः कर्तुः समयः स्यादिति वक्ष्यमाणेन सम्बन्धः । समयव्यवस्थापितत्वात्समय इत्युच्यन्ते। कथं पुनरसौ समयः कृत इत्याह। परार्थत्यादि। परार्थपरता परार्थप्रधानता। कृपालुतेति यावत्। तस्या अनुरोधेन । अन्यतो वा कुतश्चिद् यशःप्रभृतेर्हेतोः कृतः स्यात्। कीदृशोसौ समय इत्याह । यथेत्यादि । यथा मत्प्रणीतमेतद् वाक्यं (1) किं भूतम् (1) अभिमतार्थोपनिबन्धनं। मन्त्रस्य कर्तुरभिमतो योर्थो विधिविशेषः। आवाहनविसर्जनादिलक्षणः स निबन्धनं प्रवृत्त्यङ्गं यस्मिन् वाक्ये तत्तथोक्तं । एवमित्यनेनानुक्रमेण नियुंजानं प्रयुंजानं पुरुषमनेनार्थेन पुरुषाभिमतेन फलेन योजयामीति समयः स्यात्। तदा मन्त्रप्रयोगात् कदाचित् विधिसमाप्तौ। अभिमतार्थनिष्पत्तिः स्यात्। कविसमयादिब। यथा केनचित् काव्यं कृत्वैवं समयः कृतः (1) मत्प्रणीतं काव्यं यः पठति । तस्मै मयेदं दातव्यमित्यतस्तत्कृतकाव्यपाठकानां यथा प्रतिज्ञातार्थनिष्पत्तिस्तद्वत् ।।
अथ भावशक्तिः शब्दस्वभावस्यैव सा तादशी शक्तिर्येनाभिमतम्फलम्भवति । न यथाभिमतात् पुरुषसमयात्। तदा स्यादन्यत्रापि। यथा कथंचित्प्रयुक्तान्मन्त्रादपि। किं कारणं (1) वर्णात्मकस्य मन्त्रस्याविशेषतः।
नेत्यादि व्याख्यानं । न वै पुरुषसमयाद्धेतोर्मन्त्रेभ्योर्थ (सिद्धिः)। किन्तहि (1)भावस्य वर्णरूपस्य मन्त्रस्य स्वभाव एष (1) यदि न मन्त्राः कस्यचिद्
७०