________________
५५४
प्रमाणवात्तिकस्ववृत्तिटीका (१।२६५) . तहि रूपं वर्णानां सर्वत्राविशिष्टमिति यथा कथंचित् प्रयुक्तादपि फलं स्यात् । वर्णा एव हि मन्त्रा नान्यत् किञ्चित् ।
तत्क्रमो मत इति चेत् (1)
__ क्रमस्यार्थान्तरत्वञ्च पूर्वमेव निराकृतं । न वर्णव्यतिरिक्तोन्यः क्रम इति निवेदितमेतत् । अव्यतिरेके च वर्णा एव मन्त्रास्ते चाविशिष्टाः सर्वत्रेति सर्वदा फलदाः स्युः (1) • उपप्लवस्त्वल्पीयसोपि क्रमस्य भ्रंशाद् दृष्टः (1) कस्यचिदनुष्ठानाद् देवतासन्निधेरसाकल्येन विराधनाच्च । सर्वभ्रंशे तु कस्यचिदेव समयस्याननुष्ठानादसन्निधेर्थािनौं।
विधिपूर्वनियुक्ताः फलदाः। ____ तत्तीत्यादि (1) सिद्धान्त वा दी। तत्तर्हि मन्त्राख्यानं वर्णानां रूपं सर्व
वेति विधिरहिते काले। विपरीतादिप्रयोगे वाऽविशिष्टमिति । यथाकथंचित्पा[95b ठानुक्रमं विधिं चोल्लंध्य प्रयुक्तादपि मन्त्रादभिमतं फलं स्यात्। यस्माद् वर्णा
एव हि मन्त्रो नान्यत् किञ्चिद् वर्णव्यतिरिक्तं ।
तत्क्रमो वर्णक्रमो न वर्णा एवेति चेत् (1)
तदसत (1) यस्माद वर्णेभ्यः क्रमस्यार्थान्तरत्वं च वर्णानपूर्वी वाक्यं चेदित्यत्रान्तरे पूर्वमेव निराकृतं।
नेत्यादि व्याख्यानं। वर्णेभ्यः क्रमस्याव्यतिरेके च वर्णा एव मन्त्रास्ते च वर्णा अविशिष्टाः सर्वत्र प्रतिलोमपाठादाविति सर्वथा यथाकथञ्चित् प्रयुक्ता फलदाः स्युः। न च फलदा भवन्ति । न केवलं विधिभ्रंशे न फलदाः प्रत्युतानर्थकारिण एव भवन्तीत्याह। उपप्लव इत्यादि। उपद्रवः। उपप्लवः। तु शब्दो- . तिशये। अल्पीयसोपि विधिक्रमस्य भ्रंशाद् दृष्टः। स च पुरुषसमयत्वे मन्त्राणां युज्यते। नापौरुषेयत्वे।
कस्यचित् समयत्वेपि कथमुपप्लव इति चेदाह। कस्यचिदित्यादि। मन्त्रस्य का ये विधयो निर्दिष्टास्तेषां मध्ये कस्यचिद्विधेरनुष्ठानाद् देवतायाः सन्निधिर्भवति। ततस्सन्निधेरन्यस्य विधिविशेषस्यासाकल्येनासम्पादनेन। देवताया विराधनात खेदनाच्चोपप्लवः स्यात्। तत्रावीतरागा देवता। विरागिता स्वयमेवानर्थं करोति। वीतरा (गाः) तु न स्वयं। तदभिप्रसन्नास्त्वन्ये देवतादयः कुर्वन्तीति द्रष्टव्यं ।
यत्र मन्त्रे न कश्चिदपि विधिः क्रियते तत्र कथमिति (1) आह। सर्वेत्यादि। सर्वविधिभ्रंशे तु कस्यचिदेव समयस्य मन्त्रप्रणेतकृतस्य