________________
५५२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६४) त्या प्रकाशनास्तमपेक्षन्ते वह्नयादयः (1) पुरुषस्तु स्वसमयव्यापारमाचक्षाण उपदिशतीति न्याय्यं (1) पुरुषसमितनिसर्गसिद्धयोरुपदेशापेक्षणादन्यविशेषाच्चको नैसर्गिकोन्यस्तु पौरुषेय इति दुरवसानम् (1)
अस्ति विशेषः प्रमाणसमाण (?न)सम्वाद इति चेद् (1) एतदुत्तरत्र निषेत्स्यामः (1) नात्यन्तपरोक्षेर्थे प्रमाणान्तरवृत्तिरिति । समानधर्मिणोरर्थयोः प्रमाण4ra सम्वादमात्रविशेषाद् एकत्रापौरुषेयत्वे' बहुतरमिदानीमपौरुषेयं । सन्ति पुरुषकतान्यपि वाक्यानि कानिचिदेवं विधानीति तेष्वपि प्रसंगः।
तद्वदेषामप्यभिमतार्थवत्ता पौरुषेयी च स्यात् । प्रमाणानुरोधिनी च ।
भ्योर्थप्रतिपत्तौ पुरुषस्य जै मि नि प्रभृतेरुपदेशापेक्षणात् । किमिव (1) अर्थान्तरवदेव। भरतोर्वश्यादिशब्दानामर्थान्तरविकल्पवदित्यर्थः। स्वभावतोर्थप्रतिपादनेपि पुरुषोपदेशमपेक्षिष्यन्त इत्यपि मिथ्या। यतो न हि प्रकृत्या स्वभावेनार्थप्रकाशनास्तं पुरुषोपदेशमपेक्षन्ते वह्नयादयः। पुरुषस्तु स्वमात्मीयं समयव्यापारसंकेतसामर्थ्यनाचक्षाणः परस्मै उपदिशति । यथायं शब्दोस्मिन्नर्थे मया प्रयुक्त इति न्याय्यं (1) न तु प्रकृत्यार्थप्रकाशने पुरुषोपदेशो न्याय्यः । ____ अथ पुरुषसमितार्थवन्निसर्गसिद्धोपि वेदोर्थेषु पुरुषोपदेशमपेक्षते । तदा यश्च पुरुषेण समितः संकेतितो यश्च निसर्गेण स्वभावेन सिद्धोर्थः। तयोर्द्वयोरपि पुरुषोपदेशापेक्षणं प्रत्यविशेषात् । अन्यश्च कश्चिद्विशेषो नास्ति येनायं पुरुषसमितोयं निसर्गसिद्ध इति प्रतीयेत । अतः कारणादे को वैदिकोर्थे नैसर्गिकः । निसर्गे भव इत्याध्यात्मादित्वाट्ठक्। अन्यो लौकिकशब्दोर्थे पौरुषेय इति दुरवसानं। दुर्बोधं । विभागसाधकप्रमाणाभावात्।
अस्ति विशेषो निसर्गसिद्धस्य वैदिकस्य को (पि) प्रमाणसम्वादः । प्रमा
णान्तरानुगमनं । यस्तु नैवं स पौरुषेय इति चेत्। एतदुत्तरत्र निषेत्स्यामो यथा 195a नास्त्यन्त रोक्षेर्थे प्रमाणान्तरवृत्तिरित्यादिना ग्रन्थेन। पुरुषोपदेशापेक्षणा
दिना च समानधर्मणोलौं किकवैदिकयोः प्रमाणसम्वादमात्रविशेषादेकत्र वैदिके ऽपौरुषेयत्वेन कल्प्यमाने। बहुतरमिदानी लौकिकमेकवाक्यं प्रमाणसम्वाद्यपौरुषेयं कल्प्यं स्यात्। यस्मात् सन्ति पुरुषकृतान्यपि वाक्यानि कानिचिद् “अनित्या वत संस्कारा"५ इत्येवमादी नि। एवम्विधानीति प्रमाणसम्वादीनीति कृत्वा तेष्वपौरुषेयत्वप्रसंगः ।
अथ प्रमाणसम्वादिनोपि लौकिकस्य पौरुषेयत्वन्तदा तद्वदेषामपि वैदिकानां
'धम्मपदे