________________
(२) कुमारिलमत-निरासः
५५१ मिथ्यार्थतायास्तु पौरुषेयत्वेन व्याप्त्याऽपौरुषेयान्निवृत्तावपि न सत्यार्थत्वं प्रकारान्तरसंभवात्। द्वैराश्ये न शब्दानामेतत् स्यादेकनिवृत्तौ गत्यन्तराभावात्। ते त्वनर्थका अपि स्युरिति नेष्टसिद्धिः (1)
अर्थप्रतीते नर्थका इति चेत्। नैष पुरु (ष) व्यापारः स्यात्। अर्थान्तरविकल्पवद् (1) यथाऽतदर्थत्वेपि भरतोर्वश्यादिचरितादिकमर्थमन्ये अन्यथा व्याचक्षते। तदनुसारेण च केषांचित् प्रतीतिस्तथा यमनर्थकेष्वर्थविकल्पः पुरुषकृतः स्यात्। न शब्दस्वभावकृतः। पुरुषोपदेशापेक्षणाच्चान्तरवदेव (1) न हि प्रकृ
त्म्यनिवृत्तावप्यात्मनोऽसिद्धिप्रसंगः। तदिति तस्मादन्वयाऽन्वयरहिता न व्यतिरेकव्याप्तिः साध्यसाधनविपक्षयोर्न व्याप्तिरित्यर्थः । ____ अभ्युपगम्यापीति तु ब्रूमः । भवतु नामानन्वया विपर्ययव्याप्तिः। जीवच्छरीराच्च नैरात्म्यनिवृत्तौ सात्मकत्वं जीवच्छरीरस्य प्रकारान्तराभावात् । सत्यार्थतासाधने त्वकृतके हेतावयम्प्रकारो न सम्भवतीत्याह। मिथ्यार्थताया इत्यादि। मिथ्यार्थतायास्तु साध्यविपक्षभूतायाः पौरुषेयत्वेन व्याप्त्या हेतुभूतया शब्दादपौरुषेयानिवृत्तावपि न सत्यार्थत्वमकृतकस्य सिध्येत्। किं कारणं (1) सत्यार्थत्वव्यतिरेकेणानर्थक्यस्य प्रकारान्तरस्य सम्भवात्। सत्यार्थत्वमिथ्यार्थ- 194b त्वे न द्वैराश्ये तु शब्दानामेतत् स्यात् । मिथ्यार्थत्वनिवृत्तौ सत्यार्थत्वं स्यात् । किं कारणम् (1) एकनिवृत्तौ मिथ्यार्थतानिवृत्तौ सत्यार्थताव्यतिरेकेण गत्यन्तराभावात । द्वैराश्यमेव तु नास्ति गत्यन्तरसम्भवाद् (1) अतस्ते शब्दा अनर्था अपि स्युरिति नेष्टसिद्धिर्न सत्यार्थतासिद्धिः।
शब्देभ्योर्थप्रतीतेः कारणान्नानर्थका इति चेत् । नायं स्वाभाविकोर्थप्रत्ययः किन्त्वेष पुरुषव्यापारः स्यात् । संकेतः पुरुषव्यापारस्तत्फलत्वात्पुरुषव्यापार इत्यभेदेनोक्तः पुरुषव्यापारात् स्यादित्यर्थः । किम्वत् । प्रसिद्धादर्थादर्थान्तरविकल्पवत् ।
एतदेव व्याचष्टे । यथेत्यादि। जैमिनी यै रिष्टनार्थेन भ र तोर्वश्या दिचरितादिकस्यातदर्थत्वेपि तदभरतचरितमर्वशीचरितं। आदिशब्दादन्यस्यापि पूरू र व श्चरितादेर्ग्रहणं। द्वितीयेनादिग्रहणे न भरतादीनां चरितादन्यदप्यवस्थाविशेषादिकमर्थमन्ये मी मां स का लोकप्रसिद्धादर्थादन्यथा व्याचक्षते । भरतो यूपः । उर्वर्शी पात्री। अरणिर्वेत्यादिना । - व्याख्यातृविकल्पिताद् अर्थप्रतीतिर्न भवत्येवेति चेद् (1) आह। तदनुसारेणेत्यादि । व्याख्यातृभिर्विकल्पितार्थानुसारेण । केषांचिच्छ्रोतृणां प्रतीतिर्भवत्येव (1) तथेति भरतादिशब्दव्याख्यावत् । स्वभावादनर्थकेष्वपि वेदवाक्येष्वर्थविकल्पः पुरुषकृतः स्यान्न शब्दस्वभावकृतः। किं कारणं (1) वैदिके