________________
५५० प्रमाणवात्तिकस्ववृत्तिटीका (१।२६४)
तथा साध्ये पि प्राणादिभिर्युदस्यमानं स्यात् केवलं। नैरात्म्येऽभावात् प्राणादयस्तन्निरसना नात्मोपस्थापनास्तत्र भावासिद्धः। न च नैरात्म्यनिवृत्यात्मसिद्धिः। विपक्षव्यतिरेकदर्शनेपि प्रसंगात्।
तन्न विपर्ययव्याप्तिर्व्यतिरेकासिद्धौ तत्सिद्धिरेव चान्वयसिद्धिः (1) असिद्वितद्वयतिरेकनिवृत्तिसिद्धावपि तदसिद्धिरिति साध्ये पि प्रसंगः। तन्न अनन्वया व्यतिरेकव्याप्तिः (1)
मत्त्वस्याभावे च व्याप्यं नैरात्म्यं । प्राणादिमति नास्तीति न्यायात। स्वयं न भवदपि नैरात्म्यं प्राणादीनां हेतत्वेनाभिमतानामात्मनि सपक्षभते न सिद्धिमपस्थापयति । नैरात्म्यस्य भावरूपस्य व्यवच्छेदेप्यनात्म' लक्षणस्य भावस्यानाक्षेपात। ततः सत्यपि व्यतिरेकेन्वयानषङ्गाभावाद व्यतिरेक्येव हेतः प्राणादिरिति न या यि क स्येष्टसिद्धिरेवेयता ग्रन्थेन दर्शिता। - एतस्मिन्नभ्युपगमे दोषमाह। तथेत्यादि। अप्राणादिमत्वनिवृत्त्या प्राणादिभ्यो निवर्त्यमानमपि नैरात्म्यं। यथा प्राणादीनामात्मनि सपक्षभूते न सिद्धिमुपस्थापयति। तथा साध्येपि जीवच्छरीरे प्राणादिहेतुभिन्नॆरात्म्यं व्युदस्यमानं केवलं स्यात्। न त्वात्मन उपस्थापकं ।'
एतदेव ग्रहणकवाक्यं स्पष्टयन्नाह । नैरात्म्येऽभावादित्यादि । नैरात्म्ये प्राणादीनामभावात् प्राणादयस्तनिरसना नैरात्म्यमात्रव्यवच्छेदका नात्मोपस्थापकाः। किं कारणं (1) तत्र सात्मके प्राणादेर्भावासिद्धेः। न च जीवच्छरीरे नैरात्म्यस्यात्मविरुद्धस्य निवृत्त्यात्मसिद्धिः। किं कारणं (1) विपक्षान्नैरात्म्यात् प्राणादेर्व्यतिरेकदर्शनेपि क्रियमाणे सपक्षेप्यात्मनि प्राणादीनां सिद्धिप्रसङ्गात् ।
यत एवं (1) तस्मान्न विपर्ययव्याप्तिः। सात्मकत्वप्राणादिमत्वविपक्षयो:रात्म्यात् प्राणादिमत्त्वयोर्न व्याप्तिसिद्धिरित्यर्थः । कदा (1) नैरात्म्यात् प्राणादेर्व्यतिरेकासिद्धौ। एवं हि हेतुविपक्षेणाप्राणादिमत्त्वेन साध्यविपक्षस्य नैरात्म्यस्य व्याप्तिसिद्धिः स्यात् यदि प्राणादिभ्यो नैरात्म्यं । निवर्तेत । सा च निवृत्तिरन्वये सति स्यात्। तदाह (1) तत्सिद्धिरेव चेत्यादि। तस्य व्यतिरेकस्य सिद्धिरेवान्वय सिद्धिः। तन्नान्तरीयकत्वात्तस्य । व्यतिरेकसिद्धिरेवान्वयसिद्धरुक्ता। __अथान्वयसिद्धिर्नेष्यते। तदाऽसिद्धौ चान्वयस्य। तद्व्यतिरेकवृत्तिसिद्धावपि। तस्यात्मनो व्यतिरेको नैरात्म्यन्तस्य प्राणादेः सकाशानिवृत्तिसिद्धावपि । तदसिद्धिस्तस्यात्मनस्सपक्षभूतस्यासिद्धिरिति कृत्वा साध्येपि जीच्छरीरे नैरा
१B. ०प्यात्मलक्षणस्य।