________________
(२) कुमारिलमत-निरासः
५४६
यस्यापि नाभावरूपो व्यतिरेकस्तस्य भावरूपव्यवच्छेदे भावसिद्धिः स्यादिति नान्वयानषडः। तथा नैरात्म्यपि न भावसिद्धिः स्यात।
यथा "नेदं.निरात्मकं जीवच्छरीरं प्राणादिमत्वादि"ति। विपक्षयोाप्यव्यापकभावचिन्तायामप्राणादिमत्व एव नैरात्म्यं दृष्टं (1) तदभावे च नास्तीति स्वयं न भवदपि प्राणादीनां नात्मनि सिद्धिमुपस्थापयति ।
स्यात्। इष्यते च (1) तस्मान्न बौद्धस्यात्मविरहमानं नैरात्म्यं । न व्यवच्छेदमात्रं विवक्ष्यते (1) किन्त्वात्मव्यवच्छेदेन निरात्मनो भावस्य वस्तुनो निरात्मशब्देन परामर्शादभिधानात् कृतकत्वादेस्सकाशान्नरात्म्यगतिर्न प्राप्नोतीत्ययमदोष इति चेत्। एवमप्यात्मपर्युदासेन वस्तुसंस्पर्शात् । तदेवास्मदुक्तम्वस्तुरूपम्भावस्वभावन्नरात्म्यमायातं। न च भावव्यवच्छेदे भावान्तरानुषङ्गः। तस्माद् बौद्धानां शशविषाणादौ नैरात्म्यव्यवच्छेदेपि नात्मनो भावसिद्धिः। तेन यदुक्त "मनित्यनिरात्मताव्यवच्छेदेपि तथा स्यादिति तत्परिहृतं।
यस्यापि नै या यि का दे न भावरूप आत्म (1) व्यतिरेकः (1) किन्तर्हि (1) स्वभावाभाव एव तस्य नैयायिकादेर्भावरूपस्य नैरात्म्यस्य व्यवच्छेदे नात्मनो भावसिद्धिः स्यात्। इति हेतोः शशविषाणादौ नैरात्म्यव्यवच्छेदेप्यात्मनो नान्वयानुषङ्गः। आत्मनान्वयोनुगमो न भवतीत्यर्थः । यथा च शशविषाणादौ नैरात्म्यव्यवच्छेदेप्यात्मनो नान्वयानुगमस्तथा जीवच्छरीरेऽनैरात्म्येपि नैरात्म्याभावेपि नात्मनो भावसिद्धिः स्यात् ।
अथवान्यथा व्याख्यायते। मीमांस को क्तव्यतिरेकिनिराकरणप्रस्तावेन नैयायिकोक्तमपि व्यतिरेकिणं निराकर्तुमाह। यस्यापीत्यादि। यस्यापि नैयायिकादे भावरूप आत्मा व्यतिरेकः (1) किन्तर्हि (1) नैरात्म्यम्भावस्वभाव एव। तस्यैवम्वादिनो नैयायिकस्य भावरूपस्य नैरात्म्यस्य व्यवच्छेदे नात्मनो भावसिद्धिः स्यात् । भावव्यवच्छेदे भावान्तरानुषङ्गाभावात्। इति हेतोर्यत्र प्राणादिमत्वन्तत्रात्मेति नान्वयानुषङ्गः। यथा च नान्वयानुषङ्गस्तथा साध्यधर्मिण्यनैरात्म्येपि नैरात्म्यनिवृत्तावपि नात्मनो भावसिद्धिः स्यात्।
एतदेव प्रयोगपूर्वकन्दर्शयन्नाह। यथेत्यादि। इदं जीवच्छरीरं न निरात्मकं प्राणादिमत्वादिति । आश्वासः प्राणः। आदिशब्दात् प्रश्वासादिपरिग्रहः । अत्र प्रयोगे जीवच्छरीरस्य सात्मकत्वं साध्यन्न चोभयसिद्धः। स पक्षभूत आत्मास्तीति नान्वयश्चिन्त्यते। केवलं साध्यस्यात्मनो हेतोश्च प्राणादिमत्त्वस्य यथाक्रमं यो विपक्षी नैरात्म्यमप्राणादिमत्वं च तयोाप्यव्यापकभावचिन्तायां क्रियमाणायामप्रमाणादिमत्व एव नैरात्म्यं दृष्टन्तदभावे व्यापकस्या प्राणादि- 194a