________________
५४८ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६४) __नैव नैरात्म्यादयः स्वभावविशेषात्। क्रियाभोगाधिष्ठानास्वतन्त्रो ह्यात्मा निरात्मा (1) तत्स्वातन्त्र्यलक्षणत्वादात्मनः।
तद्रूपं नैरात्म्यन्नात्मनिवृत्तिमात्रमन्यथा निरुपाख्ये तकत्वाद्ययोगान्न ततो नैरात्म्यसिद्धिः स्याद् (1) आत्मव्यवच्छेदेन निरात्मनो भावस्य परामर्शाददोष इति चेत् (1) पर्युदासेन वस्तुसंस्पर्शात्तदेव वस्तुरूपं नैरात्म्यमायातं।
तीति तत्प्रतिषेधस्यैव सम्भवात् । अभावव्यवच्छेदस्वभावस्य विरहमात्रस्य तु यो व्यवच्छेदस्स नियमेन भावस्योपस्थापनो भावस्याक्षेपकः। किङ्कारणम् (1) भावाभावयोरन्योन्यं यो विवेको विरहस्तद्रूपत्वात्। तत्स्वभावत्वात्। भावविवेकस्याभावरूपत्वाद भावविवेकस्य च भावरूपत्वादित्यर्थः ।
एवन्तावद् भावाभावव्यवच्छेदयोर्भावानाक्षेपाक्षेपकत्व'मुक्त्वा प्रकृतं योजयत्यभावरूपस्त्वित्यादिना। सत्यार्थतायास्तु यो व्यतिरेको मिथ्यार्थतालक्षणः । स सत्यार्थताऽभावरूपा स व्यतिरिच्यमानः कृतकत्वनिवृत्या निवर्तमानो भावं सत्यार्थतालक्षणमुपस्थापयत्यकृतके। ___ यदि तु सत्यार्थत्वविपरीतरूपं मिथ्यार्थत्वम्परेणाभ्युपगम्यते। तदा वेदवा क्येषु कृतकनिवृत्तौ मिथ्यात्व मेव न स्यान्न तु सत्यार्थत्वन्ततश्चानर्थक्यं स्यादिति वक्ष्यति। तस्मादवश्यं सत्यार्थता भावरूपा। मिथ्यार्थतालक्षणो धर्म एष्टव्यः (1) स च व्यतिरिच्यमानस्सत्यार्थताया भावमुपस्थापयति। नैवं नैरात्म्यादयो विरहरूपाः (1) किं कारणं (1) स्वभावविशेषात् । स्वभावविशेषो हि नैरात्म्यं । तमेवाह। क्रिया शुभाशुभकरणं । भोगः सुखदुःखानुभवस्तयोरधिष्ठानं स्वीकारस्तत्रास्वतन्त्रः परवशो ह्यात्मा स्वभावो निरात्मा। स्वभावपर्यायोत्रात्मशब्दः । किं पुनः कारणम् (1) एवंभूतः स्वभावो निरात्मा भवतीत्याह। तत्स्वातन्त्र्ये
त्यादि। तस्मिन् क्रियाभोगाधिष्ठाने यत्स्वातन्त्र्यं तल्लक्ष (ण) त्वात् । तत्स्व193b भावत्वादेवात्मनः परैः कल्पितस्य। अतस्तद्वैधयेणास्वतन्त्रस्वभावो निरात्मा
भवतीत्यभिप्रायः।
.. यत एवन्तदिति तस्माद् रूपं स्वभावो नैरात्म्यं नात्मनिवृत्तिमात्रं । अन्यथा यदि निवृत्तिमात्रं' नैरात्म्यं स्यात्तदा निःस्वभावत्वान्निरुपाख्यमेव तद् भवेत् । निरुपाख्ये च कृतकत्वादेः (1) आदिशब्दात्प्रयत्नानन्तरीयकत्वादेर्वस्तुधर्मस्य हेतोरयोगात्। ततः कृतकत्वादेर्हेतोस्स'काशान्नैरात्म्यं गतिरात्म्यसिद्धिर्न
'B. भावानाक्षेपकत्वमुक्त्वा। B. मिथ्यार्थत्वमेव। B. रूपो। B. नात्मव्यवच्छेदमात्र-added
B. स्वातन्त्र्यः ।