________________
मारिलमत-निरासः
५४७
स्य। प्रतिषेधद्वयाच्च विधिसिद्धिरिति। काऽनन्वयाव्यतिरेकव्याप्तिसिद्धिः। तन्न कश्चिद्धेतुरनन्वयो नाम । एकव्यवच्छेद' स्य विजातीयसिद्धिनान्तरीयकत्वात। 40b - अनित्यनिरात्मतादिव्यवच्छेदेपि तथा स्यात् ।
न (1) व्यतिरेकव्यवच्छेदस्य भावरूपत्वात्। न भावरूपव्यवच्छेदे भावानुषंगः। अभावव्यवच्छेदस्तु नियमेन भावोपस्थानः। भावाभावयोरन्योन्यविवेकरूपत्वाद् (1) अभावरूपस्तु व्यतिरेकः (1) स व्यतिरिच्यमानो भावमुपस्थापयति ।
मिथ्यार्थत्वन्निवर्त्तत इत्येवंरूपा। सैवाकृतकस्य हेतोः · सत्यार्थत्वेनान्वयस्थितिरन्वयव्यवस्थितिः। किं कारणम् (1) विपक्षव्यवच्छेदलक्षणत्वात् साध्यस्य सत्यार्थत्वस्य। विपक्षो मिथ्यात्वन्तस्य कृतकत्वनिवर्त्तनो कृतके यो व्यवच्छेदो व्यावृत्तिस्तल्लक्षणत्वात्।
किञ्च (1) सत्यार्थताप्रतिषेधो मिथ्यार्थत्वं। तस्य च मिथ्यार्थत्वस्याकृतके यदा प्रतिषेधः कृतस्तदा प्रतिषेधद्वयञ्जातं। अस्माच्च सत्यार्थताव्यवच्छेदरूपात् प्रतिषेधद्वयात् सत्यार्थताविधिसिद्धेरिति हेतोः कानन्वयान्वयरहिता। साधनव्यतिरेकेण कृतकत्वेन साध्यव्यतिरेकस्य मिथ्यात्वस्य व्याप्तिसिद्धिर्नैवानन्वया व्याप्तिसिद्धिः।
तदिति तस्मान्न कश्चिद्धे तुरन'न्वयो नाम । किन्तु सर्वोन्वयव्यतिरेकवानेव। 19za किं कारणम् (1) एकव्यवच्छेदस्याकृतके मिथ्यार्थत्वव्यवच्छेदस्य। विजातीयसिद्धिनान्तरीयकत्वात् । मिथ्यार्थता विजातीयस्य सत्यार्थत्वस्य या सिद्धिस्तन्नान्तरीयकत्वात्।
यद्यकव्यवच्छेदस्तद्विजातीयसिद्धिनान्तरीयकस्तदाऽनित्यनिरात्मादिव्यवच्छेदेपि अनित्यताया निरात्मताया आदिशब्दाद् दुःखत्वादीनाञ्च। यदा क्वचिच्छशविषाणादौ व्यवच्छेदः क्रियते तदापि तथा स्यात्। मिथ्यार्थताव्यवच्छेदेन सत्य (1) र्थसिद्धिवदनित्यत्वादिविजातीयानान्नित्यसात्मकसुखत्वादीनां सिद्धिः स्यात् । न चैतदिष्टं (1) तथात्रापि माभूदिति परो मन्यते। __नेत्यादिना परिहरति। नायन्दोषः। किं कारणं (1) व्यतिरेकव्यवच्छेदस्य भावरूपत्वात्। व्यतिरेकोऽभावो (1) अभावस्य च यो व्यवच्छेदो निवृत्तिस्तस्य भावरूपत्वात्। अभावनिवृत्त्या भावव्यवस्थेति यावत्। तदनेनभावलक्षणमुक्तं । अस्मादेव वचनादिदमप्यर्थादुक्तम्भवति। भावव्यवच्छेदस्याभावरूपत्वादिति। तदनेन भावाभावयोस्तावल्लक्षणमुक्तं। तत्र यस्मिन् व्यवच्छिद्यमाने। न भावानुषङ्गः। यस्मिश्च व्यवच्छिद्यमाने भावानुषङ्गस्तदर्शयन्नाह। न भावेत्यादि। भावस्वभावस्य व्यवच्छेदे सति न भावानुषङ्गो न भावस्याक्षेपः। भावो न भव