________________
५४६
प्रमाणवार्तिकस्ववृत्तिटीका (११२६४ )
प्रसिद्धः सन्दिग्धवाची पुनः साधनापेक्षत्वादिति । को ह्यदृष्टविरोधस्य संभवं प्रत्याचक्षीत । तदयं व्यतिरेकः संशयादसाधनं (1)
अपि च ।
यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता । ..
स एवास्य सपक्षः स्यात् सर्वो हेतुरतोन्वयी ॥ (२९४) यत्किचिन्मिथ्यार्थं तत्सर्वं पौरुषेयमिति । हेतुविपक्षेण साध्यविपक्षस्य व्याप्तिः ( 1 ) तदभावेऽभावसिद्धौ स्यात् । भवतस्तेन व्याप्त्ययोगात् । यैव च विजातीययोर्व्यावृत्तिसिद्धिः । सैवान्वयस्थितिः । विपक्षव्यवच्छेवलक्षणत्वात् साध्य
I
नापि दूषणं । किं कारणं ( 1 ) पुनः साधनापेक्षत्वात् । अनिश्चितस्य निश्चयार्थं पुनः प्रमाणापेक्षत्वात् । न चाकृतकत्वेन सह मिथ्यार्थत्वस्य विरोधो निश्चिंतो येनाकृतके मिथ्यात्वस्व व्यतिरेकः सिद्धः स्यात् ।
अथ स्याद् (।) अकृतकत्वादेव वेदे मिथ्यात्वं न भवतीति चेद् (1)
आह । को हीत्यादि । यस्मात् को हि सचेता अकृतकत्वेन सहादृष्टविरोधस्य मिथ्यात्वस्य सम्भवम्वेदवाक्येषु प्रत्याचक्षीत । तदिति तस्मादयमकृतकत्वस्य हेतोर्यथोक्तो व्यतिरेको न साधनं । किं कारणं ( 1 ) संशयात् । इतश्च व्यतिरेकी हेतोर्नास्तीति दर्शयन्नाह ।
अपि चेत्यादि । यत्र विषये साध्यविपक्षस्य । साध्यं सत्यार्थत्वन्तद्विपक्षस्य मिथ्यात्वस्य वर्णयते व्यतिरेकिता । यत्कृतकं न भवति तन्मिथ्यार्थन्न भवतीति । य एव मिथ्यार्थत्वव्यवच्छेदस्य विषयः । स एवास्य कृतकस्य हेतोः सपक्षः स्याद् (1) अतः कारणात् सर्वो हेतुरन्वयी । अन्वयव्यतिरेकी (1) व्यतिरेकस्य प्रकृतत्वात् । न व्यतिरेक्येवेत्यर्थः ।
ननु साध्यधर्मसामान्येन समानोर्थः सपक्षः साधर्म्यदृष्टान्त उच्यते । न चायमिहास्ति ( 1 ) तत्कथं स एवास्य सपक्षः स्यादित्युच्यते ।
सत्यं (।) सपक्षसाध्यत्वेनान्वय एव सपक्ष उच्यते । अत एवाह (1) सर्वो हेतुरतोन्वयीति ।
•
यदित्यादिना व्याचष्टे । यत्किञ्चिन्मिथ्यार्थन्तत्सर्वम्पौरुषेयमिति । एवं तोरकृतकत्वस्य विपक्षेण कृतकत्वेन साध्यविपक्षस्य मिथ्यात्वस्य या व्याप्तिः सा तदभावे कृतकत्वाभावे मिथ्यात्वस्याभावसिद्धौ सत्यां स्यात् । किं कारणं (1) कृतकत्वाभावे भवतो मिथ्यार्थत्वस्य तेन कृतकत्वेन व्याप्त्ययोगात् । तस्माद् व्याप्तिमिच्छता। मिथ्यार्थत्वस्य कृतकत्वनिवृत्त्या निवृत्तिरेष्टव्या । यैव च साध्यसाधनविजातीययोमिथ्यात्वकृतकत्वयोर्व्यावृत्तिसिद्धिः । कृतकत्वनिवृत्या