________________
(२) कुमारिलमत-निरासः
५४५ संस्कारविशेषादामलकीफलानि च। न चेदानीमतदर्शिना तानि प्रतिक्षेप्त(व्य)न्येवेति । तस्मादकृतकं च स्यान्मिथ्याथ चेति विरोधं पश्यामः (1)
न हीयमनुपलब्धिरदृश्यात्म (स्वभाव) साधिकेत्युक्तं। तेन यत्किचित् मिथ्यार्थ तत्सवं पौरुषेयमित्यनिश्चयादव्याप्तिः (1) तथा हि (0)
अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि ।
तनिश्चयफलैर्जानैः सिद्ध्यन्ति यदि साधनं ॥ (२९३) तथा चोक्तं (1) “य एव तूभयनिश्चितवाची स साधनं दूषणं वा नान्यतर
• स्यादेतद् (1) एकस्य वेदवाक्यस्य सम्वाददर्शनात् सर्वत्र वेदे सम्वादनमिति (1) __ अत आह। प्रतिपादितं चैतच्छेषवदनुमानचिन्तायां पूर्वमेव। किं प्रतिपादितमित्याह। क्वचिदित्यादि। क्वचिद् देशकाले वा। तथेत्येतेन प्रकारेण दृष्टानामर्थानां पुनरन्यथाभावः। पूर्वदृष्टाकाराद् वैपरीत्यं । एतदेवाह। यथेत्यादि संस्कारविशेषात् क्षीरमध्वादिपरिष्का (रा) दिलक्षणात्। आमलकीफलानि च क्वचिद्देशे मधुराणीति सम्बन्धः । न चेदानीमतद्दर्शिना। मधुरनिम्बफलाद्यदर्शिना। तानि मधुराणि निम्बफलानि प्रतिक्षेप्तव्यान्येव। तथा वेदवाक्यानाम्मिथ्यात्वं यदि नाम दृष्टन्तथापि न शक्यम्प्रतिक्षेप्तुं । तस्मादकृतकं च स्यान्मिथ्याथं चेत्यकृतकमिथ्यार्थत्वयोर्न विरोधम्पश्यामः।
ननु मिथ्यार्थतायामकृतकत्वस्यानुपलम्भादभाव इत्यत आह। न हीयमनुपलब्धिरदृश्यात्मस्वदृश्यस्वभावेर्थेष्वभावस्य साधिकेत्युक्तं प्राक्। यतश्चाकृतकत्वस्य न मिथ्यात्वेऽभावः सिद्धः। तेन यत्किचिन्मिथ्यात्वन्तत्सर्व पौरुषेयं । इति एवम्मिथ्यार्थत्वस्य कृतकत्वेनाव्याप्तिः। किङ्कारणमनिश्चयात् । अकृत-5 कत्वस्य मिथ्यार्थत्वे व्यतिरेकानिश्चयादित्यर्थः। न चानिश्चितव्यतिरेकाद्धेतोस्सकाशात् साध्यसिद्धिः। --
तथा हि स्वसाध्येन हेतोरन्वयो व्याप्तिः। व्यतिरेको वा विपक्षाद् व्यावत्तिर्वा। सत्वं वा हेतोः साध्यमिणि। पक्षधर्ममित्यर्थः। एतानि च त्रीणि रूपाणि ज्ञानः प्रमाणैर्यदि सिध्यन्ति कीदृशैस्तन्निश्चयफलस्तस्य रूपत्रयस्य निश्चयः फलं येषामिति विग्रहः। तदा तानि त्रीणि रूपाणि विवक्षितस्य साध्यस्य साधनम्भवन्ति । यथोक्तमाचार्य दि ग्ना गे न। य एव हयभयनिश्चितवाची। वादिप्रतिवादिभ्यां निश्चितस्य हेतुलक्षणयुक्तस्यार्थस्य वाचकः स साधनन्दूषणम्वा। असिद्धत्वादिलक्षणयुक्तस्यार्थस्य वाचकः शब्दः प्रतिवादिना दूषणाभिप्रायेण प्रयुक्तः। नान्यतरप्रसिद्धः सन्दिग्धवादो वादिप्रतिवादिभ्या- 192b मन्यतरप्रसिद्धस्य सन्दिग्धस्य चोभयोरन्यतरस्य च यो वाचकः शब्दः स न साधनं
६६