SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५४४ प्रमाणवात्तिकस्ववृत्तिटीका (१।२६२) विधस्यादर्शनादसत्त्वमेव। यस्मात् (1) नासत्तासिद्धिरित्युक्तं सर्वतोनुपलम्भनात् । असिद्धायामसत्तायां संदिग्धा व्यतिरेकिता ॥ (२९२) न ह्ययं पुरुषमात्रकः सर्व द्रष्टु समर्थो येनास्य दर्शननिवृत्या न तथा स्यात् । यस्य ज्ञानं ज्ञेयसत्तां न व्यभिचरति स एवं ब्रुवाणः सो (? शो) भेतादर्शनान्नास्तीति। तदिमे स्वभावदेशकालविप्रकर्षेण सन्तोनुपलक्ष्याः स्युः। तथा हि (1) कोत्यन्तपरोक्षेर्थे सम्वादनमितरद्वा सर्वदर्शी वचनस्याकृतकस्येतरस्य वा विभावयितुं समर्थः। प्रतिपादितं चैतत् (1) क्वचित्तथा दृष्टानामप्यर्थानां पुनः कथञ्चिदन्यथाभावो यथा क्वचिद् देशे मधुराणि निम्बफलाणि (?नि) व्यक्तिभेदेन विरुद्धसहभाविनाविरुद्धरथैरेकत्र भाविनामपि दर्शनात । अनित्यत्ववत प्रयत्नानन्तरीयकेतरयोरितरदप्रयत्नानन्तरीयकं। अनित्यत्वं प्रयत्नानन्तरीयकत्वेन सह दृष्टमप्रयत्नानरीयकत्वेन सह दृश्यते। यद्येवमकृतके मिथ्यात्वस्यादर्शनादभाव: स्यादिति (1) अत आह। न च तथाविधस्येत्यकृतकस्य सतो मिथ्यात्वस्यादर्शनाक्सत्वमेव । यस्मान्न विपक्षे हेतोरसत्तासिद्धिः सर्वतोनुपलम्भनादित्युक्तं प्राक् । ततश्चासिद्धायां विपक्षाद्धेतोरसत्तायां सन्दिग्धविपक्षाद् व्यतिरेकिता। __ न हीत्यादिना व्याचष्टे। अयम्पुरुषमात्रक इत्यग्दिर्शी सर्वम्वस्तु द्रष्टुं समर्थो येनास्य पुंसो दर्शननिवृत्त्या न तथा स्यात् । अदृष्टो न स्यात् । यस्माद् (1) यस्य हि पंसो ज्ञानं ज्ञेयसत्तां न व्यभिचरति। सदित्येव कृत्वा यस्य सर्वस्मिन ज्ञ(? ज्ञे) ये ज्ञानं प्रवर्तते तस्य ज्ञानं ज्ञेयव्यापकं निवर्तमानं ज्ञेयमपि निवर्त्तयति। . अतोसावदर्शनानास्तीत्येवं वाणः शोभेत। न सर्वम् (1) तदिति। तस्माद् 192a (1) इमे भावाः सन्तोप्यनुपलक्ष्याः अपोह्याः स्युः। कथं (1) स्वभावदेशकाल विप्रकर्षेण । स्वभावश्च देशश्च कालश्च तैविप्रकर्षों व्यवधानमिति विग्रहः । सन्नपि कश्चिद्देशकालाभ्यां स्वभावेन च विप्रकृष्ट: पिशाचादिवत्। (२६१) ननु कालव्यवहितानामतीतानागतानामनुपलम्भादसत्वं युक्तमभावादेव । सत्यं (1) केवलमतीतानागतानामिदानीमनुपलम्भेपि कदाचित् सत्त्वं भूतं कदाचिद् भविष्यतीत्यनुपलम्भाभाव इति।। तथा हीत्यादिनैतदेव बोधयति। को ह्यसर्वदर्शी। अत्यन्तपरोक्षेर्थे वचनस्याकृतकस्य सम्वादनं। इतरस्य कृतकस्य वचनस्यात्यन्तपरोक्षेर्थे। इतरद्वेत्यसम्बादनं भावयितुं निश्चेतुं समर्थः (1) नैव। परेण कृतकस्यासम्वादनमिष्टमिति द्वयमुक्तं ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy