________________
(२) कुमारिलमत-निरासः
५४३
यस्मात्।
हेतावसम्भवेऽनुक्ते भावस्तस्यापि शक्यते ।
विरुद्धानाम्पदार्थानामपि व्यापकदर्शनात् ।। (२९१) यदि हेतोः साध्यविपक्षेऽभावः सिध्यत् साध्यव्यतिरेकं हेतुव्यतिरेको व्याप्नुयात्। न च तत्र तस्यासंभवे प्रमाणं पश्यामः। न चाविरुद्धो विधिः प्रतिषेधसाधनो युक्तोऽतिप्रसंगात्। न चै कत्र दृष्टस्यान्यत्र सम्भव एव पृथग्विरुद्धसहभाविनामपि दर्शनात्। अनित्यवत् प्रयत्नानन्तरीयकेतरयोन च तथा
र्थस्य सत्यार्थत्वलक्षणस्य सिद्धेः किमन्वयेन। तत्साधनत्वाच्च लिङ्गस्य इष्टार्थसाधनत्वाच्च लिङ्गस्य व्यर्थमन्वयदर्शनं। कस्माद् (1) यथोक्तविधिना व्यतिरेकमात्रेणैव साध्यसिद्धेरिति ।'
1915 सत्यमेतदित्या चा र्यः। विपक्षाद्धेतोर्व्यतिरेके सिद्धे सति साध्यं सिध्येदिति सत्त्यमेतत्। यदि सत्त्यार्थताऽकृतकत्वविपक्षयोमिथ्यात्वकृतकत्वयोर्व्याप्यव्यापकभावः सिध्यत्। तदा कृतकत्वेन व्याप्तान्मिथ्यार्थत्वादकृतकन्निवर्त्तते। स तु व्याप्यव्यापकभावो विपक्षयोर्न सिद्धः। कि कारणं ।। यस्मात् मिथ्यात्वेऽकृतकत्वस्यासम्भवेऽसम्भवनिमित्तं बाधके हेतावनुक्ते सति। भावस्सत्त्वन्तस्याप्यकृतकत्वस्य मिथ्यात्वे शक्यते। अकृतकं च स्यान्मिथ्यार्थं चेति। (२६० ab) .
ननु च मिथ्यात्वे कृतकत्वं दृष्टं (1) यत्र च कृतकत्वन्तत्र कथमकृतकत्वमिति (1)
अत आह। विरुद्धानामित्यादि। विरुद्धानामपि पदार्थानामेकव्यापकदर्शनात् । यथा प्रयत्ना प्रयत्ननान्तरीयकाणामनित्यानामेकेन कृतकत्वेन व्याप्तिः ।
यदीत्यादिना व्याचष्टे। यद्यकृतकत्वाख्यस्य हेतोस्साध्यविपक्षे मिथ्यार्थत्वेऽभावः सिध्यत्तदा साध्यस्य सत्यार्थत्वस्य व्यतिरेकं मिथ्यात्वं। हेतुव्यतिरेकः हेतोरकृतकत्वस्य व्यतिरेकः कृतकत्वाख्यो व्याप्नुयात् । न च तस्याकृतकत्वस्य तत्र मिथ्यार्थतायामसम्भवे बाधकं प्रमाणं पश्यामः।
अकृतकत्वादेव वेदस्य मिथ्यार्थतायामवृत्तिरिति चेद् (1)
आह। न चेत्यादि। मिथ्यार्थत्वेनाविरुद्धस्याकृतत्वस्य विधिमिथ्यार्थताप्रतिषेधस्य साधनो युक्तः। कस्माद् (1) अतिप्रसङ्गात्। एवं हि यस्य कस्यचिंद् विधानेन यस्य कस्यचिदभावः प्रतीयेत।।
कृतके दृष्टस्य मिथ्यात्वस्याकृतके कथं वृत्तिरिति चेद् (1)
आह। न चैकत्र कृतके दृष्टस्य मिथ्यात्वस्य पुनरन्यत्राकृतकेऽसम्भव एव (1) किन्तु सम्भव एव। किं कारणम् (1) पृथग्विरुद्धसहभाविनाम्पृथगिति