SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ 40a प्रमाणवात्तिकस्ववृत्तिटीका (१।२६०) मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः । सत्त्यार्थ व्यतिरेकस्य विरोधिव्यापनाद् यदि ॥ (२९०) अथ' यन्मिथ्याथं वचनं तदखिलं कृतकमिति हेतुव्यतिरेकेण साध्यव्यतिरेकस्य ध्याप्तेरन्यत्रासम्भवादकृतकं सत्यार्थमिति स्याद् विनाप्यन्वयेन। यो हि येनाव्याप्तस्तत्र तद्वचतिरेकः शंक्यत। न च विरुद्धयोरेकत्र सम्भवोस्त्यसंभ वे विजातीयस्य गत्यन्तराभावाद (1) इष्टार्थसिद्धस्तत्साधनत्वाच्च लिंगस्य। ज्यर्थमन्वयदर्शनं। व्यतिरेकमात्रेणैव सिद्धेरिति । सत्यमेतद् (1) यदि विपक्षयोाप्यव्यापकभावः सिध्येत् स तु न सिद्धो आह। अकृतकस्वभावत्वेह्येषां वैदिकानां शब्दानां मिथ्यार्थनियतोपि कश्चिच्छब्दः स्यात्। इतिहेतोः स्वभावपरिज्ञानादयं सत्यार्थोयं मिथ्यार्थ इत्येवं विवेकेन शब्दस्वभावानिश्चयात सर्वत्र शब्दे संशयः स्यात। सत्यार्थम्वैदिकम्वाक्यमकृतक-- त्वादिति प्रयोगे क्रियमाणेन्वयाभावात्। व्यतिरेकिप्रयोगमाह। मिथ्यात्वमित्यादिना। मिथ्यात्वं कृतकेष्वेव दृष्टमिति हेतोरकृतकम्वचः सत्यार्थ यदीति सम्बन्धः। किं कारणं (1) व्यतिरेकेस्य विरोधिव्यापनात् । अकृतकस्य हेतोर्यो व्यतिरेकः कृतकत्वन्तेन सत्यार्थत्वं यत्साध्यन्तस्य विरोधिमिथ्यात्वन्तस्य व्यापनात । व्यतिरेकस्येति कर्तरि षष्ठी। हेतुव्यतिरेकेण कृतकत्वेन सत्यार्थविरोधिनो मिथ्यार्थत्वस्य व्याप्तत्वात्। वैदिके शब्देऽकृतकत्वात् कृतकत्वनिवृत्तौ मिथ्यार्थत्वनिवृत्तेः सत्यार्थत्वं सिध्यत्येव । यथेत्यादिना व्याचष्टे। यत्किञ्चिन्मिथ्यार्थम्वचः तदखिलनिःशेषं कृतकमिति कृत्वा। हेतोरकृतकत्वस्य व्यतिरेकेण कृतकत्वेन साध्यव्यतिरेकस्य । साध्यं सत्यार्थत्वं तस्य व्यतिरेको मिथ्यात्वन्तस्य व्याप्तेरन्यत्राकृतके मिथ्यार्थत्वस्यासम्भवात् कारणादकृतकं सत्यार्थमिति स्याद विनाप्यन्वयेन। सत्यार्थम्वैदिकम्वचो कृतकत्वादित्यत्र प्रयोगे यद्यप्यन्वयो नास्ति। तथाप्यन्वयेन विना सिध्यत्येवेत्यर्थः। यस्माद् यो ह्यर्थो मिथ्यात्वलक्षणो येन कृतकत्वेनाव्याप्तस्तत्र मिथ्यात्वे तद्वचतिरेकस्तस्याव्यापकस्य कृतकत्वस्य व्यतिरेको कृतकत्वलक्षणो धर्म आशंक्येतायमपि मिथ्यात्वे भवेदिति। तच्चेह नास्ति कृतकत्वेन मिथ्यार्थताया व्याप्तः। न च विरुद्धेन व्याप्ते विरुद्धस्य सम्भवो यतो न च विरुद्धयोः कृतकत्वाकृतकत्वयोरेकत्र मिथ्यात्वे सम्भवोस्ति। तेनाकृतके सत्यार्थत्वं विजातीयस्य मिथ्यार्थत्वस्यासम्भवे। सत्यार्थमिथ्यार्थत्वाभ्यां नान्या गतिरस्तीत गत्यन्तराभावादकृतकत्वेन सत्यार्थ एव भवितव्यमित्यकृतकत्वादिष्टा
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy