________________
(२) कुमारिलमत-निरासः
५४१ स्वसंकेतमनुविदधदेवं प्रत्येत्याहोस्विच्छब्दस्वभावस्थितेरिति संदेहः (1) लोकेच्छयापि परावर्त्यमानाः शब्दाः पुनरन्यत्रा न्यथा दृश्यन्त इति। लोकप्रसिद्धयनुविना (धा? )नेपि संभवत्येवैषामन्यथाभावः। तस्मात् कस्यचिदवपरीत्यदर्शनेपि सर्वेषां तथाभावो न सिध्यति।
(ख) कृतकत्वेऽपि दोषाः अकृतकस्वभावत्वेपि ह्येषां कश्चिन्मिथ्यार्थनियतोपि स्यादिति स्वभावापरिज्ञानात् सर्वत्र संशयः स्यात्।
स्यान्मतम् (1) "अग्निहिमस्य भेषज"मित्यादिवैदिकवाक्यस्यावितथत्वात् सर्वस्यावितथत्वमिति (1)
अत आह। न हीत्यादि। न ह्यग्निहिमस्य भेषजं प्रतिपक्ष इत्येवमादिषु वेदवाक्येष्वग्नेः शीतप्रतिघातसामर्थ्यम्वेदवाक्यात्। प्रागपि यथासंकेतं लोकप्रसिद्धं ख्याप्यत इति कृत्वा सर्वमदृष्टार्थमपि वेदवाक्यन्तथा भवति। अवितथम्भवति। लोकप्रसिद्धे ह्यर्थे लोकस्य संकेतानुसारेण व्यवहारो दृष्टः। ततोलोकस्य स्वेच्छाकृतो यः संकेतस्तेनानु पश्चाद् व्यवहारकाले व्यवहारात् । सन्देह एव किमयं लोकः स्वसंकेतमनुविदधत् । अनुसरन्।
. __ अग्निहिमस्य भेषजमित्यादिवाक्यादेवम्प्रत्येत्यग्नेः शीतापनोदसामर्थ्य मिति निश्चिनोत्याहोस्विच्छब्द स्वभावस्थितेः शब्दस्य स्वभावेन प्रकृत्या सामर्थ्यनियमादेवं प्रत्येतीति। यदा च दृष्ट एवार्थे वैदिकस्य शब्दस्य स्वतोर्थप्रतिपादनशक्तिस्सन्दिग्धा तदात्यन्तपरोक्षेप्यर्थे नितरां सम्भाव्यत इति भावः । __ नन्वनादिलोकप्रसिद्धयनुविधानेनैव वैदिकानां शब्दानामर्थवत्ता न च तत्र सन्देहः प्रतिभासत इति (1) - अत आह। लोकेच्छया परावर्त्यमा'ना यथासमयमर्थेषु निवेश्यमानाः पुन- I9ra रन्यत्र देशादिपरावृत्तावन्यथेत्यर्थान्तरनिवेशेन परावर्त्यमानाः शब्दा दृश्यन्ते । इति हेतोर्लोकप्रसिद्ध्यानु विधानेप्यङ्गीक्रियमाणे सम्भवत्येवैषां वैदिकानां शब्दानामन्यथाभावो मिथ्यात्वं । प्रसिद्धरेवानियतत्वात्।
तस्मात् कस्यचिद् वैदिकस्य वाक्यस्या“ग्निहिमस्यभेषज"मित्यादिकस्यावपरीत्यदर्शनेपि सर्वेषां वेदवाक्यानान्तथाभावस्सत्यार्थत्वन्न सिध्यति ।
अकृतकत्वादेव सत्यार्थत्वमिति चेद् (1)