________________
५४०
प्रमाणवार्तिकस्ववृत्तिटीका (१।२८६) सम्भवतीति।
सर्वेण समं वा गृह्येत । न वा केनचिदिति। सन् केनचिद् दृष्टो न नित्यः कश्चिदतीन्द्रियः स्यात्। न चैतदस्ति। तस्मादर्थसामर्थ्यानपेक्षाः समारोपितगोचराः। आन्तरमेवोपादानं विकल्पवासनाप्रबोधमाश्रित्य बाह्यार्थशून्या भ्रान्तय एवाकाशादिषु सर्वस्य संभवन्तीति। तस्मान्नापरवृत्तिधर्माणः शब्दाः (1) ___ तत्त्वे वा। कुत एतदवित प्रतीतय एवेति । न हि "अग्निहिमस्य भेषज" मित्यादिषु शीतप्रतिघातसामर्थ्य लोकप्रसिद्धमग्नेः ग्या (?ज्ञा) प्यत इति सर्व तथा भवति (1) लोकस्य स्वेच्छाकृतसंकेतानुव्यवहारात् (1) किमयं लोकः
-
योग्यो योतिशय आत्मभूतस्तस्य प्रलम्भे हेतुम्वस्तुविशेषं सहकारिणमिति यावत् ।
तथेत्यनित्यत्ववत् । नित्यो भावो कार्यविशेषोनाधेयातिशयः केनचित् पुंसा गृह्यमाणस्तत्कारणापेक्षः ग्रहणसहकारिकारणापेक्षो यदि ग्रहणमस्य पुंसो जनयेत् । 19ob युक्तं यत्ते'नैव पुंसा गृह्येत नान्येन सहकारिप्रतिनियमात्। तच्च सहकार्यपेक्षया
जननं नित्यस्य न सम्भवति। किं कारणं (1) स्थितस्वभावत्वाद्। नित्यस्य सहकारिणा नाधेयातिशयत्वादिति यावत्। ___ ततश्च नित्यं जननस्वभावे स्थितत्वात् सर्वेण पुंसा सममेककालं गृह्येताथ सर्वेणाजनकत्वान्न गृह्येत। तदा स एवास्य स्वभाव इति न वा केनचित् पुरुषेण कदाचिद् गृह्येत । इति हेतोस्सन् विद्यमानो नित्यो भावो यदि केनचित् योगिनापि दृष्टस्तदा न कश्चिन्नित्योऽतीन्द्रियः स्यात्सर्वेषामवश्यं केनचिद् दर्शनात् । तथा चासौ नित्यं सर्वपुरुषाणामिन्द्रियग्राह्य एव स्यात् सर्वपुरुषम्प्रति ज्ञानजननसामर्थ्याविशेषात्। न चेदं सर्वपुरुषग्राह्यत्वन्नित्यस्यास्ति। तस्मादर्थसामर्थ्यानपेक्षा आकाशादिस्वलक्षणसामर्थ्यानपेक्षकाः समारोपितगोचराः। यथागमम- . ध्यारोपिताऽकाशाद्याकारप्रतिभासिन्य इत्यर्थः। आन्तरमेवोपादानकारणमाश्रित्य कीदृशं विकल्पवासनाप्रबोधं । आकाशादिविकल्पनानादिता। या आहिता वासना तस्याः प्रबोधः कार्योत्पादनं प्रत्याभिमुख्यं । यत एवार्थसामर्थ्यानपेक्षा अत एव बाह्यार्थशून्या भ्रान्तय एवाकाशादिषु सर्वस्य पुंसो भवन्ति।
स्थितमेतत् (1) नास्ति नित्येभ्यः कार्योत्पाद इति। शब्दात्तु दृश्यते कदाचिज्ज्ञानकार्यन्तस्मानापरावृत्तिधर्माणः शब्दाः। एकरूपतायां अपरावृत्तिरेव धर्मो येषामिति विग्रहः। किन्तु ज्ञानं ज्ञानं प्रत्यर्था भिन्नवृत्तय एव। ___अथ नित्यमेकरूपा एव तदा तत्त्वे वा। एक रूपत्वे वाऽभ्युपगम्यमानेऽवितथार्थप्रतीतय एव वैदिकाः शब्दा इति कुत एतत्। अवितथा अर्थप्रतीतिर्येभ्य इति विग्रहः।