________________
(२) कुमारिलमत-निरासः
५३६ या अप्यता नित्याभिमतेष्वाकाशादिषु प्रतिपत्तयस्ता अपि न तत्स्वभावभाविन्यः (1) तथा हि (1)
विकल्पवासनोद्भताः समारापितगोचराः ।
जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः (। २८९) स्वलक्षणविषया हि बुद्धिनियमेन तद्योग्यतोपस्थानानुविधायिनीति। तस्मिन् सत्यस्याः कारणे योग्यता भवत्येव। तद्यदि नित्यानां पदार्थानां स्वलक्षणे कस्यचित् ज्ञानं स्यात् (1) सर्वस्य सर्वदा स्यात् । कार्य विशेषा हि व्यक्तयः कथंचित् क्वचिदुपयुज्यमानास्तदुपजननयोग्यतातिशयप्रतिलंभहेतुं वस्तुविशेषमपेक्षन्त इति युक्तं। तथाऽकार्यविशेषो नित्यो भावः केनचिद् गृह्यमाणोतत्कारणापेक्षो यदि ग्रहणमस्य जनयत् युक्तं यत्तेनैव गोत । तच्च स्थितस्वभावत्वान्न
तदपि नास्ति। स्वविषयज्ञानकार्यस्य सातत्यादर्शनाच्च । न ते शब्दाः कथंचित् केनचित् प्रकारेण कर्तार इत्येतच्चोक्तं प्राक् ।
स्यादेतत् (।) नित्येभ्योप्याकाशादिभ्यो बुद्धयो भवन्त्येव कस्यचित् कदाचिदिति (1)
अत आह । या अप्येता नित्याभिमतेष्वाकाशादिषु प्रतिपत्तयो बुद्धयो भविष्यन्तीतीष्यते। ता अपिन तत्स्वभावभाविन्यो नाकाशादिस्वभावायत्तजन्मानः । नित्यानां क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् ।
किम्पुनरुत्पत्तौ तासां निमित्तमिति (।)
आह। न हीत्यादि। अनादिः समानजातीयो यो विकल्पस्तेनाहिता या वासना शक्तिस्तत उद्भता उत्पन्ना। यथागमं समारोपितो य आकाशाद्याकारस्तद्गोचरास्तत्प्रतिभासिन्य एव केवलं गताः । तत्र बाह्यत्वेन कल्पितेष्वाकाशादिषु जायन्ते। न तु ता बुद्धयोर्थगोचरा नाकाशादिस्वलक्षणविषयाः ।
स्वलक्षणेत्यादिना व्याचष्टे । स्वलक्षणविषया हि बुद्धिनियमेन तस्य स्वलक्षणस्य योग्यता सामर्थ्यन्तस्योपस्थानं सन्निधानन्तदनुविधायिनी तद्भाव एव भाविनीति कृत्वा । अस्या बद्धेर्यत कारणं स्वलक्षणं योग्यं समर्थन्तस्मिन् कारणे योग्य सति साबद्धिर्भवत्येव। तदेवं न्याये स्थिते यदि नित्यानां पदार्थानां स्वलक्षणे कस्यचित पुंसो ज्ञानं स्यात् । तदा नित्यं कारणस्य सन्निधात सर्वस्य पंसः सर्वदा स्यात् ।
नापि सहकार्यपेक्षया नित्यानां कस्यचित् कदाचिज्ज्ञानजननन्तथा हि कार्यो जन्यः सहकारिभिविशेषो यासां व्यक्तीनान्ता हि व्यक्तयः कथंचिद्देशकालावस्थानियमेन क्वचित् कार्ये उपयुज्यमाना हेतुत्वं प्रतिपद्यमानास्तस्य कार्यस्योपजनने