________________
५३८
प्रमाणवात्तिकस्ववृत्तिटीका (११२८८)
न ज्ञानहेतुतैव स्यात् तस्मिन्नतके मते । नित्येभ्यो वस्तुसामर्थ्यान्न हि जन्मास्ति कस्यचित् ॥ (२८८)
यद्यकृतकः शब्दो न तस्मादर्थेषु प्रतीतिरेव स्यात् प्रतीतिजन्मेतरकालयोस्तुल्यरूपस्य प्रतीतिर्जन्मनि सामर्थ्यसंभावनाऽयोगात्। एवमयञ्जनको नैवमिति विवे (च)नीयस्य रूपभेदस्याभावात्। न यादृशोस्याजनकस्तादृश एव जनको युक्तोऽन्यापेक्षापि निषिद्धव। तस्मान्न नित्यानां क्वचिज्ज्ञानजननसामर्थ्य । कदाचिदजनने नित्यमजननप्रसंगात्। कार्यसातत्यादर्शनाच्च (1) न ते कथं विकर्तार इत्युक्तं प्राक्।. .
यो जननस्वभावस्तत्र स्थितौ चैषां वैदिकानां शब्दानां समयादेः (1) आदिशब्दादन्यस्यापि करणव्यापारादेरपेक्षणीयस्याभावात् कारणात्। ततो वैदिकांच्छब्दात्प्रतीतिर्ज्ञानमर्थेषु सर्वस्य पुंसः सर्वदा स्यात् । न चास्ति सर्वस्य सर्वदार्थप्रतीतिः। तस्मान्न वैदिकाः शब्दा अर्थप्रतीतिप्रतिष्ठितस्वभावाः किन्तु समयादिकमपेक्ष्यन्त एवेति। तेपि मिथ्याज्ञानस्य हेतव इति तदवस्थो दोषः ।
अपि च (1) तस्मिन् शब्देऽकृतके मते इष्टे सति न ज्ञानहेतुतैव स्यात् । यस्मान्न हि नित्येभ्यो वस्तुसामर्थ्यात् स्वरूपोपधानसामर्थ्येन जन्मास्ति कस्यचित्। ज्ञानस्यान्यस्य वा (1)
यद्यकृतक इत्यादिना व्याचष्टे। यद्यकृतकश्शब्दो वैदिकस्ततोर्थेषु प्रतीतिरेव न स्यात् ।। किं कारणं (1) प्रतीतीत्यादि। इतरदजन्माजन्म च इतरच्चेति
विग्रहः । तयोः कालो प्रतीतेजन्मेतरकालयोस्तुल्यरूपस्य नित्यत्वादेकरूपस्य प्रती190a तिर्जन्मनि सामर्थ्यसम्भावनाऽयोगात्। प्रतीतेर जन्मकाले यत्तस्य जनकं रूपन्त
स्मिन्नेव स्वभावे स्थितस्य जनकत्वविरोधात्। किं कारणम् (1) एवमनेन रूपे- . णायं नित्याभिमतो जनको नैवमनेन रूपेणाजनक इत्येवं विवेचनीयस्य पृथग् व्यवस्थाप्यस्य रूपभेदस्य स्वभावभेदस्याभावात् । नित्यस्य सर्वदैकरूपत्वात् ।
एकस्वभावोपि पूर्वमजनकः पश्चाज्जनको भविष्यतीति चेद् (1)
आह नेत्यादि। अस्य नित्यस्याजनको यादृशः स्वभावस्तादृश एव जनकोन युक्तः। एकरूपत्वात्। सहकारिणमधिकं प्राप्य पश्चाज्जनयतीत्यादि मिथ्या। यतोन्यापेक्षापि सहकार्यपेक्षापि नित्यस्य निषिद्धव प्राक्। __यत एवन्तस्मानित्यानां शब्दानां क्वचिदर्थेषु पुरुषे ज्ञानजननसामथ्यं । किं कारणं (1) कदाचिज्ज्ञानस्याजनने सति पश्चादपि तत्स्वभावत्वान्नित्यमजननप्रसङ्गात् ।
अथ माभूदेष दोष इति नित्यं स्वकार्य कुर्वन्त्येवेतीष्यते।