SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ (२) कुमारिलमत- निरासः नियमः किन्न कल्प्यते (1) अथवा वहन्यादिवदेवा 'र्थेषूभयज्ञानहेतुत्वं स्यात् । पौरुषेया अपि वन्यादय एकत्र यथार्थज्ञानहेतवोपि सर्वत्र तथा भवन्ति । तथाशब्दानामप्यपौरुषेयत्वेप्युभयं स्यात् । भवतु बन्यादीनां कृतकत्वाद् यथाप्रत्ययमन्यत्रान्यथात्वं । शब्देष्वेतदस्ति । ५३७ न पुनर्नित्येषु नन्वेवंविधः तत्राप्यस्त्येव धर्मः ( 1 ) तेषामपि संकेतवलादन्य' व्यावृत्तेः । 39b कार्यजननस्वभावस्थितावेषां समयादेरपेक्षणीयस्याभावात् । ततः प्रतीतिरर्थेषु सर्वस्य सर्वदा स्यात् । न चास्ति । तस्मान्न शब्दाः स्थितस्वभावा इति । अपि च । वितथव्यक्तयश्च स्युर्नियमेन । वितथा व्यक्तयोर्थप्रतिपत्तयो येभ्यः शब्देभ्य इति विग्रहः । वितथव्यक्तय एव सदा वैदिकाः शब्दा इत्यस्य नियमस्य कारणं नास्ति (1 ) ततो नियमकारणाभावाद् वितथव्यक्तय एव वैदिकाः शब्दा इत्येतत् कल्पनमयुक्तमिति चेत् । तवापि मी मां स क स्यावितथज्ञानहेतवो वैदिकाः शब्दा इत्यस्मिन्नथिव्यक्तिनियमे किं कारणं (1) नैव किञ्चित् । तस्मात् त्वन्मतेन यथार्थव्यक्तिनियमत्वात् प्रकृत्या स्वभावेनायथार्थव्यक्ति नियमः किन्न कल्प्यते । अथवा यथा वह्नयादयो घटादिषु नीलोत्पलादिषु चार्थेषु यथायोगं सत्यासत्यज्ञानहेतवस्तथा वैदिकानां शब्दानामर्थेषु मिथ्येतरज्ञानहेतुत्वेनोभयज्ञानहेतुत्वं स्यात्। यस्मान्न ह्यपौरुषेया अपि वयादयो वनदवचन्द्रालोकादिरूपाः । एकत्र घटादौ दिवा यथार्थज्ञानहेतवोपि सन्तः सर्वत्र नीलोत्पलादावपि रात्रौ । तथा भवन्ति यथार्थज्ञानहेतवो भवन्ति । तथा वैदिकानां शब्दानामप्यपौरुषेयत्वेप्युभयं स्यात् । यथार्थायथार्थज्ञानहेतुत्वं स्यात् । भवत्वित्यादि परः । वह्न्यादीनां कृतकत्वात् कारणाद् यथाप्रत्ययं यस्य यद्भ्रान्तिकारणं । तद्वशादन्यत्र नीलोत्पलादौ । अन्यथात्वं वितथज्ञान' हेतुत्वं न पुननित्येषु शब्देष्वेतत् सहकारिप्रत्ययबलेन मिथ्याज्ञानहेतुत्वमस्ति । नित्यानां सहकारिबलेनान्यथा प्रवृत्त्यसम्भवात् । नन्वित्यादि सिद्धान्त वा दी । एवंविध इति सहकारिबलेनार्थेष्यन्यथा परिवृत्तिलक्षणोस्त्येव धर्म: ( 1 ) तत्रापीति वैदिकेष्वपि शब्देषु । किं कारणं (1 ) तेषामपि वैदिकानां संकेतबलादन्यथावृत्तेः पुरुषेच्छानुविधायि संकेतबलेनान्यथा प्रतीतिजननादित्यर्थः । अथ संकेतबलान्न तेषामर्थेषु परावृत्तिरिष्यते । किन्तु नित्यत्वात् स्वभावत एव स्वविषयज्ञानजननस्वभावा वैदिकाः शब्दाः । तदा कार्यस्य स्वविषयज्ञानस्य ६८
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy