SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ प्रमाणवात्तिकस्ववृत्तिटीका (१।२८७) नाऽपौरुषेयमित्येव यथार्थज्ञानसाधनं । दृष्टोऽन्यथापि वह्नयादेरदुष्टः पुरुषागसा ॥ (२८७) भवन्तु नामापौरुषेया वैदिकाः शब्दास्तथापि। संभाव्यमेवैषामयथार्थज्ञानहेतुत्वं । न हि पुरुषदोषोपधानादेवार्थेषु ज्ञानविभ्रमः। तद्रहितानामपि प्रदीपादीनां नीलोत्पलादिषु विश्तथज्ञानजननात्। तदिमे शब्दाः संस्कारनिरपेक्षाः प्रकृत्या नार्थेषु प्रतिभानहेतवः स्युः (1) स्वभावविशेषाद् वहन्यादिवत्। वितथव्यक्तयश्च नियमेन। नियमकारणाभावादयुक्तमिति चेद् (1) अवितथव्यक्तिनियम किं कारणं। तस्माद् यथार्थव्यक्तिनियमवत्। प्रकृत्याऽयथाऽर्थव्यक्ति अस्तु वा शब्दादर्थान्तरं योग्यता। तथापि शब्दशक्तिश्च दूषिता वेदितव्या। कैः (1) सम्बन्धदोषैः प्रागुक्तैः। उक्तो हीत्यादिना व्याचष्टे। सम्बन्धः सम्बन्धिभ्योर्थान्तरमित्येवम्वावेऽनेकप्रकारो दोष उक्तः। “सम्बन्धिनामनित्यत्वान्न सम्बन्धेस्ति नित्यता" इत्यादिना । तेनैव प्रागुक्तेन दोषेण शब्दशक्तिरपि सम्बन्धरूपेण कल्पिता दूषितेति कृत्वा न पुनः पृथगुच्यते दोषः। तदेवं नापौरुषेयो वेदः। भवतु नामापौरुषेयस्तथापि न तस्य सत्यार्थता निश्चेतुं शक्या। यस्मादपौरुषेयमित्येव कृत्वा न वैदिकम्वचनं यथार्थज्ञानसाधनं । अविपरीतार्थज्ञानहेतः। यस्मात पुरुषागसा पुरुषदोषेणादष्टो वयादिना (1) आदिशब्दाज्ज्योत्स्नादिः (1) अन्यथापि दृष्टो वितथज्ञानहेतुर्दृष्ट इत्यर्थः। भवत्वित्यादिना व्याचष्टे । भवन्तु नामापौरुषेया वैदिकाः शब्दास्तथापि सम्भाव्यमेवैषां वैदिकानां शब्दानामययार्थज्ञानहेतुत्वं । यतो न हि पुरुषदोषोपधानादेव। पुरुषदोषे रागादिभिरुपधानात्। संस्कारादेव। अर्थेषु ज्ञाप्येषु ज्ञापकानां शब्दानां ज्ञानविभ्रमो ज्ञानविपर्यासः। प्रकृत्यापि मिथ्याज्ञानजननस्य सम्भाव्यत्वात्। यस्मात् तद्रहितानामपि पुरुषदोषोपधानरहितानामपि प्रदीपादीनाम्वितयार्थज्ञानजननात् । आदिशब्दाज्ज्योत्स्नादीनां (1) कुत्र (1) नीलोत्पलादिषु । तथा हि रात्रौ प्रदीपो नीलोत्पले रक्तप्रतिभासज्ञानहेतुः । ज्योत्स्ना पीते वस्त्रे शुक्लज्ञानहेतुः। तदिति तस्मादिमे वैदिकाः शब्दाः पुरुषसंस्कारनिर पेक्षाः स्युरिति सम्बन्धः प्रकृत्या च स्वभावेन चार्थेषु प्रतीतिहेतवो ज्ञानहेतवः स्युः । 189b किं कारणं (1) स्वभावविशेषात् स्वरूपविशेषात् । किमिव (1) वह्नयादिवत् ।'
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy