________________
(२) कुमारिलमत - निरासः
वक्ष्यामः । तस्य च विनाशाव्यभिचारात्मसत्तानुबन्धी ॥
प्रत्याख्येयाऽत एवैषां सम्बन्धस्यापि नित्यता ।
५३५
अत एव च यथोक्ताद् वस्तुमात्रानुबन्धाद् विनाशस्य शब्दवत् सम्बन्धनित्यतापि प्रत्याख्येया ॥
(च) कुमारिलमत- निरासः
(क) अपौरुषेयत्वे दोषाः
या च शब्दशक्तियोग्यताख्यार्थप्रतिपत्त्यन्त्याश्रयो
जैमिनी यै र्वर्ण्यते सार्थान्तरमेव न भवति । तथा हि (1) योग्यतेति रूपातिशय एव भावानामित्यावेदितं प्राक् ।
अस्तु वार्थान्तरं । तथापि ॥
सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता । (२८६)
उक्तो हि सम्बन्धार्थान्तरवादेऽनेकप्रकारो दोषः । तेनैव सा शब्दशक्तिदूषितेति न पुनरुच्यते । अपि च ।
ज्ञानमात्रार्थक्रियायामप्यसामर्थ्यं तत्सामर्थ्यरहितम्वस्त्वेव न स्थात् । तथा हि 189a तल्लक्षणमर्थक्रियासामर्थ्यलक्षणम्वस्त्विति वक्ष्यामः । तस्य चार्थक्रियासमर्थस्य वस्तुनः क्रमेणार्थक्रियां कुर्वतो विनाशाव्यभिचारादहेतुत्वाच्च विनाशस्य सत्तानुबन्धी विनाशः सिद्धः । अत एवानन्तरोक्तात् सर्वभावानां क्षणिकत्वसाधनाच्छब्दार्थयोस्सम्बन्धस्यापि नित्यता प्रत्याख्येया । दूष्या ।
( ने) त्यादिना व्याचष्टे । अत एव यथोक्ताद् विनाशस्य वस्तुमात्रानु' बन्धात्। शब्दवद् (।) यथा शब्दस्य नित्यता प्रतिक्षिप्ता तद्वत् सम्बन्धस्यापि नित्यता प्रत्याख्येया ।
एवन्तावत् सम्बन्धं व्यतिरिक्तमभ्युपगम्य दोष उक्तोऽधुनाऽव्यतिरिक्त एव सम्बन्धो न युज्यत इति ( 1 )
आह । या च शब्दशक्तिर्योग्यताख्या योग्यतासंज्ञितार्थप्रतिपत्त्याश्रयो जै मि नी यै र्व र्ण्यते। सा योग्यताशब्दार्थान्तरमेव न भवति । तथा हि भावानां - स्वभावातिशय एव विवक्षितार्थक्रियासमर्थो योग्यतेत्यावेदितं प्राक् । “समर्थ हि रूपं शब्दस्य योग्यते" त्यादिना ।
तेन शब्दस्यानित्यत्वे योग्यताया अप्यनित्यत्वमव्यतिरेकादिति भावः ।