SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ प्रमाणवात्तिकस्ववृत्तिटीका (१।२८५) रात्मानं जनयेत्। न (1) ज्ञेयाधिकाराचे कदाचित क्वचित् केनचिज्ज्ञाताः सन्तोन शायन्ते। तेषां सत्तानुबन्धी नाश इति ब्रूमः (1) त एव कृतका अनित्याः साध्यन्ते। न ह्ययं संभवोस्ति। यत्ते ज्ञानजननस्वभावाः पुनरनष्टा न जनयेयुरपेक्षेरन्वा परं। तज्जननस्वभावस्य निष्पत्तेः (1) न च तेषु। न (1) यत्केषु कस्यचित् कदाचित् ज्ञानं निवर्तेत । न चैवंभूतं किंचिदस्ति। सर्वस्य केनचित् कदाचिज्ज्ञानात् । ज्ञानमाप्रार्थक्रियायामप्यसामर्थ्याद् वस्त्वेव न स्यात् (1) तथा हि। तल्लक्षणं वस्त्विति आह विचित्रेत्यादि। विचित्रा शक्तिर्यासामिति विग्रहः। सामग्र्यो दृश्यन्ते । तत्र विचित्रशक्तिषु सामग्रीषु मध्ये काचित् सामग्री स्यावपि या भावमनश्वरात्मानं जनयेत् । नेत्यादिना परिहरति । अयं च परिहारो नाशस्वभावो भावानां नानुत्पत्तिमतां। यदीत्यत्रापि चोद्ये द्रष्टव्यः साधारणत्वात्। नायन्दोषः (1) कस्मात् (1) ज्ञेयाधिकारात्। एतदेव स्पष्टयन्नाह। ये कदाचित् काले क्वचिद् देशे केनचित् पुरुषेणार्या ज्ञाताः सन्तः पुनर्न ज्ञायन्तै तेषां सन्तानानुबन्धी नाश इति ब्रूमः। ये चाज्ञाताः सन्तो ज्ञायन्ते ज्ञाता वा पुनर्न ज्ञायन्ते (1) त एव कृतका अनित्यास्साध्यन्ते। अनेन च कृतकत्वस्य क्षणिकत्वेन व्याप्तिः सत्त्वादि त्यनेन निश्चीयत इत्युक्तम्भवति। ननु च यद्यपि ते ज्ञातास्सन्तो न ज्ञायन्ते तथापि कथन्तेषामनित्यत्वमिति (1) अत आह। यस्मान्न ह्यस्ति सम्भवो यत् ते ज्ञानजननस्वभावाः पूर्वम्पुनरनष्टास्तस्मिन्नेव स्वभावे स्थिता न जनयेयुः। सहकार्यभावान्न जनयन्तीति चेद् (1) आह । अपेक्षेरन्नापरं। न ह्यस्य सम्भवोस्तीति सम्बन्धः। किं कारणं (1) तज्जननस्वभावस्य निष्पन्नत्वात्।। अथ स्यात् (1) तेष्वनपेक्षेष्वपि कस्यचित् कदाचिज्ज्ञानम्भविष्यतीति (1) - अत आहः। न च तेषु नैव तेषु ज्ञानजननस्वभावेषु व्यवस्थितेषु सहकार्यनपेक्षेषु कस्यचित् पुंसः। कदाचित् काले किंचिज्ज्ञानं निवर्तेत। सर्वस्य सर्वदा स्वविषयाणि ज्ञानानि जनयेयुः । न चैवं। कदाचित् ज्ञानदर्शनात्। ततश्च ज्ञानमजनयन्तो जनकस्वभावात् प्रच्युता इति गम्यते। .. यत्तयज्ञेयं कृतकमकृतकम्वा तन्नवम्भविष्यतीति (1) अत आह। नेत्यादि। न चैवंभूतमज्ञेयं किंचिदस्ति । किं कारणं (1) सर्वस्यार्थस्य केनचित्पुरुषेण कदाचिज्ञानात्। अथ तज्ज्ञानमपि न जनयेत् । तदा
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy