________________
च. पुद्गल-चिन्ता
न वै प्रतिघोऽन्यो वा स्वभावोऽकस्मात् प्रतिनियमवान् । यादृशी तु स्वहेतोः शक्तिस्थितिः। तादशं फलं भवतीति हेतुस्वभावनियमात् फलस्वभावनियमः।
आकस्मिक' त्वेप्यस्योक्ते दोषः प्रतिघात्मता हेतुस्वभावप्रतिनियमवन्न नश्व- 39a रजननप्रतिनियतस्वभावं भावं पश्यामो येन तज्जन्मा तथा स्यान्नान्यः (1) सर्वाकारजन्मनां विनाशदर्शनात्।
नन्विमप्यनिश्चयमेव सर्वाकारजन्मानो नश्यन्तीति । तासामनिःशेषदर्शनात्। विचित्रशक्तयो हि सामरयो दृश्यन्ते। तत्र काचित् स्यावपि यानिश्व
श्वरः स्वभाव: स्यान्नान्यस्य (1) किं कारणम् (1) अनित्यस्वभावस्य भेदकानां हेतूनामभावतः। सर्वेषाम्विनश्वरस्वभावस्य जननादितियावत् ।
ननु नाशस्वभावो भावानान्नानुत्पत्तिमतां यदीति चोद्यं प्रकृतं। न च तत्रानित्ये रूपभेदोस्ति भेदकानामभावत इत्ययम्परिहारो युक्तः। न ह्याकाशादीनां स्वहेतुकृतो विनश्वरस्वभावोनुत्पत्तिमत्त्वात् । तत्कथं सत्यमित्याद्युक्तमिति। ___ एवम्मन्यते (1) यथा सत्त्वं व्यभिचार्युक्तन्तथा कृतकोपि कश्चिन्नश्वरः कश्चिन्नेत्याशंकते। तेनादावेव कृतकत्वस्य व्यभिचारन्तावत् परिहर्तुं सत्यमित्याधुक्तमित्यदोषः।
नेत्यादिना व्याचष्टे। अन्य इति सनिदर्शनादिकः। अकस्मादिति हेतुमन्तरेण . नियमवान्। क्वचित् स्यात् क्वचिन्नेति । यादृशी तु प्रतिनियतविषया। प्रतिघादिधर्मजनकस्य हेतोः शक्तिस्थितिः। शक्तिनियमस्तादृशं हेतुशक्त्य- . नुरूपं फलम्भवतीति कृत्वा हेतुस्वभावनियमात् फलस्वभावनियम इष्टः । . आकस्मिलत्वे तु निर्हेतुकत्वेस्य फलस्वभावनियमस्योक्तो दोषः। देशकालप्रकृतिनिवमो न युज्यत इति । तस्मात् प्रतिघातात्मताया हेतुस्तस्य स्वभावस्तस्य 188b प्रतिनियमवत । न नश्वरजननप्रतिनियतस्वभावं हेतुभूतम्भावस्य पश्यामः । कश्चिदेव नश्नरं जनयेन्न सर्वमित्येवं नश्वरजनने प्रतिनियतः स्वभावो यस्य भावस्येति विग्रहः । येन हेतुप्रतिनियमेन । तज्जन्मा विनश्वरजननाद्धेतोर्जन्म यस्य स तथा स्यान्नश्वरः स्यान्नान्यो यस्तद्विलक्षणहेतुजन्मेति । किं कारणं (।) सर्वाकारजन्मनां नाशदर्शनात् । सर्वाकारेभ्यो हेतुभ्यो जन्म येषामिति विग्रहः ।
नन्वित्यादि परः। सर्वाकारेभ्यो हेतुभ्यो जन्म येषाम्भावानान्ते नश्यन्तीतीदमप्यनिश्चयमेव । किं कारणं (1) तासां हेतुसामग्रीणामग्दिर्शनैरनिःशेषदर्शनात् साकल्येनादर्शनात् । कस्याश्चित् सामग्र्या नश्वरजनिकाया दर्शनाददृष्टा अपि तज्जातीयतया तथाभूता निश्चीयन्त इति चेद् (1)