________________
५३२
प्रमाणवात्तिकस्ववृत्तिटीका (११२८५) प्रत्याल्यातः। कस्यचिद् भावानभ्युपगमात् ॥
यथा केषाश्चिदेवेष्टः प्रतिघो जन्मिका(?)नां तथा । नाशस्वभावो भावानां नानुत्पत्तिमतां यदि ॥ (२८४)
अथ स्याद् (1) भवतु नाम नाश (:)स्वभाव एष भावानां य इमे क्षणस्थितिधर्माणः। स तूत्पत्तिमतामेव भविष्यति (1) न हि स्वभाव इति सर्वः सर्वस्य स्वभावो भवति प्रतिघात्मतावत् । सत्यमेव तथापि॥
स्वभावनियमाद्धेतोः स्वभावनियमः फले । नानित्ये रूपभेदोस्ति भेदकानामभावतः ॥२८५॥
188a एतेनेति स्वभावप्रतिपादनेन। अहेतुकत्वेपि नाश' स्याङगीक्रियमाणे स नाशः
प्रथममभूत्वा भवतीत्येवमभूत्वा नाशस्य भावतः कारणात् तस्य नाशस्यांकुरादिवत् सत्ता स्यात् । नाशित्वं चेति। सतानाशित्वदोषस्य यत् प्रसञ्जनन्तत्प्रत्याख्यातमेतेनैव।
योपीत्यादिना व्याचष्टे। अहेतुकेपि नाशेऽस्य नाशस्याभूत्वा भावात् सत्ताऽनित्यत्वं च दुनिवारं। अभूत्वा भवनहेतुको भवतीत्यपि विरुद्ध कादाचित्कस्या हेतुत्वविरोधात्। सोपि दोषोपन्यासोऽनेनैव विनाशस्य नीरूपत्वप्रतिपादनेन प्रत्याख्यातः। किं कारणं (1) विनाशकाले कस्यचिद् धर्मस्य भावानभ्युपगमात् । : यथा तुल्ये वस्तुत्वे केषांचिदेव जन्मिनामुत्पत्तिमतां प्रतियो नाम स्वदेशे परस्योत्पत्तिविवन्धलक्षण इष्टो न सर्वेषां। तथा भावानामुत्पत्तिमतामेव नाशस्वभावो भवतु (1) न त्वनुत्पत्तिम तामाकाशादीनां। तथा च “यत् सत्तत्क्षणिक"मित्येतद् व्यभिचारीति। ___ अथेत्यादिना व्याचष्टे। भवतु नाम। स्वभाव एष भावानां (1) कोसौ स्वभाव इत्याह। य इमे क्षणस्थितिधर्माणः। क्षणस्थितिधर्मो येषामिति विग्रहः । स तु क्षणस्थितिधर्मस्वभाव उत्पत्तिमतामेव भावानाम्भविष्यति। न त्वनुत्पत्तिमतामाकाशादीनां।
यस्मान्न हि स्वभाव इत्येव कृत्वा सर्वः सर्वस्य स्वभावो भवति । प्रतिघात्मतावत् । यथा प्रतिघात्मता वस्तुस्वभावत्वेपि न सर्वस्य भवति तद्वदित्यर्थः । __ सत्यमित्या चा र्यः। सर्वः सर्वस्य स्वभावो न भवतीति सत्त्यमेतत् । तथाप्ययं सप्रतिघस्य जनकोऽयं नेति स्वभावनियमाद्धेतोः स्वभावनियमः फलेऽयं प्रतिघोऽयं नेति। नानित्ये तु नानित्यत्वविषये कृतकानां रूपभेदोस्ति येन कस्यचिन्न