________________
च. पुद्गल-चिन्ता
५३१ अपेक्षते परः कार्य यदि वियेत किश्चन । यदकिश्चित्करं वस्तु किं केनचिदपेक्ष्यते ॥ (२८२)
सति हि कार्ये कारकं भवति । न च नश्यतो भावस्य किंचित् कार्यमित्युक्तं । तस्मात् यो नाम नाशहेतुः स भावे न किंचित् करोतीति अकिंचित्करोनपेक्षणीयः (1) कथमनुत्पन्नातिशयः। तदवस्थ एव भावः कथं नष्टो नाम।
तस्मान्नाभावे कस्यचिद् भावोपक्षेपोऽन्यस्य (1) एतेनाहेतुकत्वेपि ह्यभूत्वा नाशभावतः । सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनं ।। (२८३)
योपि मन्यते (1)अहेतुकेपि विनाशेऽभूत्वास्य भावात् सत्ताऽनित्यत्वं च दुनि• वारम् (1) अभूत्वा भवन्नहेतुको भवतीत्यपि विरुद्धत्वमिति। सोप्यनेनैव
तेन भावस्य कार्य कर्त्तव्यम्विद्येत किञ्चन। न तु किञ्चित कार्यमस्ति। तस्मादकिञ्चित्करम्विनाशकारणं । यच्चाकिञ्चित्करम्वस्तु । तत्कि केनचिदपेक्ष्यते। नैवापेक्ष्यते।
सतीत्यादिना व्याचष्टे। सति हि कर्तव्ये कारकम्भवति। न च नश्यतो भावस्य किंचित् कार्यमित्युक्तं। तस्माद् यो नाम कश्चिन्नाशहेतुः स भावे न किञ्चित् करोतीत्यकिञ्चित्करो नापेक्षणीयो विनाशहेतुः।।
तत्कथमित्यादि परः। यदि विनश्यतो नातिशयः कश्चिदुत्पद्यते। कथामिदानीमनुत्पन्नातिशयः। अनुत्पन्नोतिशयोस्येति विग्रहः। तदवस्थ एव पूर्वरूपावस्थ एव भावो विनष्टो नाम।
नन्वित्यादि सिद्धान्त वा दी। विनाशहेतोः सकाशाद भावस्यातिशयोत्पत्तावप्यङ्गीक्रियमाणायां स एव तस्यातिशयो नाशाख्यः । उत्पन्न इति स भावः कथं नष्टो नाम । न ह्यन्यभावेन्यस्य नाशः। यत एवन्तेन कारणेनायम्भावस्तववस्थो न नष्टो नाम। किन्तु येन यस्मात स्वयं न भवति तेन नष्टो नार्थान्तरस्य नाशाख्यस्योत्पादादित्यनन्तरमेवोक्तं। यतो न हि नाशाख्यस्यातिशयस्योत्पत्त्या भाव: स्वयं न भूतो नाम। किं कारणम् (1) अभावस्य सर्वे येतिशयाः। सामर्थ्यलक्षणाः। याश्चोपाख्याः व्यपदेशास्तेषां निवृत्त्या। सर्वसामर्थ्यव्यपदेशनिवृत्त्येत्यर्थः। सर्वस्य भावधर्मस्य भवनरूपस्य धर्मस्य यो विवेको विरहस्तल्लक्षणत्वात्। भावस्य चोत्पत्तिसमावेशलक्षणत्वात् । यस्माद् भवतीति भाव उच्यते। तेनोत्पत्तियोगी भावः । यतश्चैवन्तस्मानाभावे भावस्य विनाशे कस्यचिदन्यस्य भावो भवनन्तस्योपक्षेपः। न कस्यचिद् भवनमित्यर्थः ।