________________
५३०
प्रमाणपत्तिकस्ववृत्तिटीका (११२८१)
ननु सैवासति प्रतिबन्धेन युक्तेत्युच्यते। नाकार्यकारणयोः कश्चित प्रतिबन्ध इति चोक्तं । यत्प्रतिपत्तिनान्तरीयकं यज्ज्ञानमित्यपि तज्ज्ञाने सति स्यात् । न हि यो विज्ञाने स्वरूपासंसगिणि न भासते। तस्य किंचिज्ज्ञानं । तदभावान्न सिध्यति। अवाच्यतालक्षणमर्थरूपस्य । तद्भवता वस्तु(तः) तत्त्वान्यत्त्वभाजा भवितव्यं ।
यस्य तु विनस्य (? श्य)तो भावस्य न किंचिद् भवति। तेन (1) न भावो भवतीत्युक्तमभावो भवतीत्यपि ॥ (२८१)
यदप्ययं भावस्याभावो भवतीत्याह। तदपि भावो न भवतीत्येवोक्तं भवति । एवं हि स निवतितो भवति। प्रतिषेधे विधेरसंभवात्। तत एवास्य विनाशे न कश्चिद्धेतुः। तथा हि (1)
तिर्भवतीत्यर्थः। न पुद्गलस्य रूपादिनान्तरीयकता किन्तु पुद्गलस्य या प्रतीतिस्तस्याः। तन्नान्तरीयकता रूपादिनान्तरीयकता। - सैव प्रत्यासत्तिरिति चेत्।
ननु सैव प्रतीतेस्तन्नान्तरीयकता। रूपादिषु पुद्गलस्यासति प्रतिबन्धे । न युक्तेत्युच्यते। ' __अकार्यकारणयोरपि पुद्गलरूपाद्योः प्रतिबन्धो भविष्यतीति (1)
अत आह । अकार्यकारणयोर्न कश्चिद् वास्तवः प्रतिबन्ध इत्यसकृदुक्तं यत्प्रतिपत्तिनान्तरीयकं यज्ज्ञानमित्यपि यदुच्यते । तज्ज्ञाने रूपादिविवेके। पुद्गलज्ञाने
सति स्यात् । तच्च नास्ति। यतो यः पुद्गले विज्ञाने स्वरूपेण न प्रतिभासते 187b स्वरूपासंसर्गिणान्यासंसर्गेणेत्यर्थः। तस्य किञ्चिज्ज्ञानं न हीति सम्बन्धः ।
तदभावाद् यथोक्तज्ञानाभावादर्थरूपस्य पुद्गलाख्यस्यावाच्यतालक्षणं न सिध्यति । .. तदिति तस्माद् वस्तुतः परमार्थतः क्वचिद् भवता केनचिदर्थेन तत्र तत्त्वान्यस्वभाजा भवितव्यं । वस्तुनो गत्यन्तराभावात् । यस्य तु क्षणिकवादिनो विनश्यतो भावस्य न किञ्चित् भवति केवलं स भावः स्वयमेव न भवतीति मतं । तेनाभावो भवतीत्यपि ब्रुवता न भावो भवतीति प्रतिषेधमात्रमेवोक्तं न कस्यचिद् विधानं । ततो नाभावंप्रति क्षणिकवादिनस्तत्त्वान्यत्वविकल्पस्यावतारोस्तीति मन्यते।
यदपीत्यादिना व्याचष्टे। यदप्ययं क्षणिकवादी भावस्याभावो भवतीति विधिसंस्पशिनेव शब्देनाह। तदपि भावो न भवतीत्येवोक्तं भवति । एवं हि स भावो निवतितो भवति यदि किञ्चिन्न विधीयते। किं कारणं (1) प्रतिषेधे भावमात्रव्यवच्छेदे विधेरसम्भवात् । । यतश्च विनश्यतो भावस्य न कश्चिद् वस्तुधर्मो भवति। तत एवास्य भावस्य विनाशे न कश्चिद्धेतुः। तथा हि विनश्यता भावेनापेक्षेत परो विनाशहेतुः। यदि