________________
च. पुद्गल-चिन्ता .
५२६
दृश्यस्याभावाव वृश (? श्य) त्वेपि न तद्रूपं ज्ञानमिति कस्य किमायत्ता प्रतीतिः। न च यद् यदायत्तप्रतीतिकं तस्य स्वभावप्रतिभास एव नश्यति (1) प्रकाशायत्तप्रतीतीनामिव नीलादीनां। का वा तस्य प्रत्यासत्तिस्तत्र यत् तस्मिन्ननात्मरूपे प्रतीयमाने स स्वयं प्रत्युपतिष्ठते । ___अतिप्रसंगो ह्येवं स्यात् प्रतीयमानस्य तदुपादानस्य तदुपादनतेति चेत् । कोय- 38b मुपादानार्थः। न कार्यकारणभावो न ह्यपगमादभ्युपगमे वा न कार्यकारणे ऽन्यो न्यप्रतीतिप्रत्युपस्थापने। प्रतीतेरेव (1) तन्नान्तरीयकता प्रत्यासत्तिरिति चत् (1)
कारणं (1) तस्य पुद्गलस्य रूपादिस्वभावमपहाय निःस्वभावत्वात् स्वयं । यस्मात् स एव हि तस्य स्वभावो यो रूपादिरूपः प्रतिभाति । . अथारूपादिस्वभावः पुद्गलः। तदाऽरूपादिस्वभावत्वेऽस्य पुद्गलस्यातद्वन्रूपादिवत् पृथक्प्रतिभावप्रसङ्गात् । न च प्रतिभासते ततो नास्त्येव पुद्गलः । यतो दृश्यस्याप्रतिभासमानस्य चाभावात्। अथादृश्यः पुद्गल इष्यते (1) तदा अदृश्यत्वेपि पुद्गलस्येष्यमाणे न तद्रूपं ज्ञानन्न पुद्गलाकारं ज्ञानमिति कस्य किमायत्ता प्रतीतिः। न रूपादिज्ञाननान्तरीयकं पुद्गलज्ञानमित्यर्थः। तथा च न ज्ञानकृतः प्रतिबन्ध इति भावः ।
रूपाद्यायत्तप्रतीतित्वादेव पृथक् पुद्गलो न प्रतिभासत इति चेद् (।)
आह। न चेत्यादि। यद् वस्तु यदायत्तप्रतीतिकं यत्प्रतिबद्धोपलम्भनन्तस्य स्वभावप्रतिभास एव न च नश्यतीति सम्बन्धः। किमिवेत्याह। प्रकाशेत्यादि। यथा नीलादीनामालोकप्रतिबद्धज्ञानानामालोके प्रतिभासमानेपि स्वप्रतिभासो न नश्यति । आलोकव्यतिरेकेण तेषां प्रतिभासनात् । तद्वत् पुद्गलस्यापि स्यात् ॥
अपि च का वा तस्य पुद्गलस्य प्रत्यासत्तिः सम्बन्धस्तत्र स्कन्धे। यदिति येन प्रत्यासत्तिकारणेन तस्मिस्कन्धेऽनात्मरूपेऽपुद्गलस्वभावे प्रतिभासमाने स्वयम्प्रत्युपतिष्ठते। आत्मानं ग्राहयतीति यावत्।
अतिप्रसंगो ह्येवं स्यात् । अप्रतिबद्धे प्रतिभासमाने यदि नियमेन पूदगल: प्रतिभासेत । तदा यस्य कस्यचित्प्रतिभासनेन्योप्यत्यन्तासम्बन्धः प्रतीयत इत्यर्थः। प्रतीयमानस्य पुद्गलस्य तदुपादानतारूपाद्युपादानताप्रत्यासत्तिरिति चेत् (।) कोयमुपादानार्थः। न तावत् पुद्गलस्य रूपादीनाञ्च यथाक्रमङकार्यकारणभावः। तस्यानभ्युपगमात् । कार्यकारणभावाभ्युपगमे वा न रूपादिदर्शने नियमेन पुद्गलस्य दर्शनं । किं कारणं (1) यतो न कार्यकारणे। अन्योन्यप्रतीतिप्रत्युपस्थापने। यथा कार्यात् कारणप्रतीतिस्तथा न कारणात् कार्यप्रती