________________
५२८
प्रमाणवात्तिकस्ववृत्तिटीका (१।२८१) तेत्यपि कार्यकारणभाव एव शब्दान्तरेणोक्तः स्यान्नार्थभेदः। स्वभावाननुगमत्वमन्यत्त्वं ब्रूमः। न स्वभाववतां परस्परमस्त्येवेत्यन्यत्त्वमेव । न च तज्जन्मलक्षणात् स्वभावप्रतिबन्धादन्यः प्रतिबन्धो नामानायत्तस्य व्यभिचाराविरोधात् ततो धर्मभेदाच्च।
अन्यत्त्वं ज्ञानकृतः प्रतिबन्ध इति चेत् (1)
स्यादेतत् (1) यत्प्रतिपत्तिनान्तरीयकं यज्ज्ञानं तद्गतौ नियमेन तत्प्रतिभासात् तदतद्रूपमप्यवाच्यमिति
न (1) तस्य निःस्वभावत्त्वात् । स्वयं स एव वेति भि (? हि) तस्य स्वभावो यः प्रतिभाति। अतत्स्वभावत्वेस्य तद्वत्प्रतिभासप्रसंगात्। अप्रतिभासमानस्य च
एवं सति कार्यत्वात् स्कन्धेभ्यः पुद्गलस्य तत्त्वान्यत्त्वेनावाच्यत्वमिष्टं । तथा च सति सर्वकारणानाम्परस्परमवाच्यता स्यात्। तथा चेति कार्यत्वादवाच्यत्वे । सर्वः सर्वस्य कथंचिदिति साक्षात् पारम्पर्येण चोपयोगीति सर्वत्र कार्यकारणभावान च कश्चित् कुतश्चिदन्यः स्यात् । एवं चानन्तरोक्तेनावाच्यतालक्षणेनावाच्यतेत्यपि ब्रुवता कार्यकारणभाव एव शब्दान्तरेणोक्तः स्यानार्थभेदः कश्चित् । अन्यत्त्वन्तु न निषिद्धमेव। यस्मात् स्वभावयोः परस्परमननुगमनममिश्रीभवनमन्यत्त्वम्बमः। स च स्वभावाननुगमः स्वभाववतां सर्वपदार्थानामस्त्येवेति परस्परमन्यत्त्वमेव । न चान्यः प्रतिबन्धः पुद्गलस्य स्कन्धेषु। यस्मान्न हि जन्मलक्षणाज्जन्मस्वभावात् स्वभावप्रतिबन्धादन्यः प्रतिबन्धो नाम । किं कारणम् (1) अनायत्तस्य तदुत्पत्त्या तत्राप्रतिबद्धस्य । तेन सह यो व्यभिचारस्तस्याविरोधात् । ततोप्रतिबन्धात् पुद्गलस्य स्कन्धेभ्योन्यत्त्वं । धर्मभेदाच्चान्यत्त्वं । तथा ह्यवाच्यत्वं । पुद्गलस्य धर्मः स्कन्धानान्तु परस्परम्वाच्यत्वमिति धर्मभेदः ।।
यद्यपि न जन्मकृतः प्रतिबन्धस्तथापि पुद्गलस्य स्कन्धेषु ज्ञानकृतः प्रतिबन्ध इति चेत्।
स्यादित्यादि नैतदेव व्याचष्टे। यस्य रूपादेः प्रतिपत्तिर्यत्प्रतिपत्तिस्तया नान्तरीयकमविनाभावि यज्ज्ञानं यस्य पुद्गलस्य ज्ञानं । तद्गताविति रूपादिगतौ नियमेन तस्य पुद्गलस्य प्रतिभासनात्। ज्ञानकृतः प्रतिबन्धस्तथा हि रूपशब्दादि
ग्रहणेनैव पुद्लग्रहणमिष्यते। चक्षुरादिविज्ञानविज्ञेयत्वात् पुद्गलस्येति। तेन 187a ज्ञानकृतात् प्रतिबन्धात्। तत्पुद्गलाख्यम्वस्तु स्कन्धेभ्योन्यत्त्वेनावाच्यमतद्रूप
मप्यस्कन्धस्वभावमपि।
नेत्यादिना प्रतिषेधति । न पुद्गलस्य रूपादिप्रतिपत्तिनान्तरीयकं ज्ञानं । कि