________________
च. पुद्गल-चिन्ता
५२७ कस्यचित् समावेशः। न खल्वेवं विनाशो वस्तुनि तद्भावाद् (।) असावपि यदि वक्तृभिरेवं ख्याप्येत न तु स्वयं तथा। तदा न किञ्चित् न भवतीतीष्टमेव तस्मात् स्वयं भवन् स्वभावो विकल्पद्वयं नातिवर्त्तते तत्त्वमन्यत्त्वमिति ।
च. पुद्गल-चिन्ता अतत्त्वमेव स्वभावस्यान्यत्त्वमिति। न हि रूपरसयोरप्यन्यदेव परय (?) स्परमन्यत्त्वं । स्वभावाप्रतिबन्धोऽन्यत्त्वमिति चेत् (1) कोयं प्रतिबन्धो नाम येन स च न स्यान्नान्यश्च (1)अजन्मेति चेत् सर्वकार्यकारणानां परस्परमवाच्यता स्यात् (1) तथा च सर्वः सर्वस्य कथंचिदुपयोगीति न कश्चिदन्यः स्यात् । एवं चावाच्य
सहेतुकोपि विनाश एवम्भविष्यतीति चेदाह। नेत्यादि। एवं शशविषा णवत् सर्वार्थविरहलक्षणो विनाशः परेष्टः। किं कारणम् (1) वस्तुनि तस्य विना- ...
186b शस्य भावादुत्पत्तेः। यश्च भवति स कथमभावो विरोधात। __ यदि पुनरसावपि विनाशो निःस्वभाव एव केवलं' वक्तृभिरेवम्भवतीति व्यापारवानिव ख्याप्यते। न तु स्वयन्तथाभवनधर्मा नीरूपत्वादस्य। तदैवमिष्यमाणेऽभावो भवतीत्यपि ब्रुवाणेन। न किञ्चिद् भवतीतीष्टमेव। क्रियाप्रतिषेधमात्रत्वादस्य वाक्यस्य। तस्मात् स्वयमनध्यारोपितेनाकारेण क्वचिद् वस्तुनि भवन स्वभावो विकल्पद्वयं नातिवर्तते तत्त्वमन्यत्त्वं चेति प्रकारान्तराभावात् . ०॥ (२८०)
रूपादिस्कन्धस्वभावः पुद्गलो न भवत्यथ च रूपांदिभ्यो नान्यः। तस्म तत्त्वान्यत्त्वमतिवर्तत एव स्वभाव इति चेत्।
तन्न (1) यस्मादतत्त्वमेवातत्स्वभावत्वमेव स्वभावस्यान्यत्त्वमिति ।
यदि पुद्गलोपि न स्कन्धस्वभावस्तदा स्कन्धेभ्योन्य एव। यतो न हि प्रसिद्धान्यत्त्वयो रूपरसयोरप्यन्यदेव परस्परमन्यत्त्वं (1) किन्त्वतत्स्वभावत्वमेवान्यत्वन्तच्च पुद्गलेप्यस्तीति सोपि स्कन्धेभ्योन्य एबेष्टव्यः ।
नन्वतत्स्वभावत्वेपि परस्परं स्वभावाप्रतिबन्धोन्यत्त्वमिति चेत् । स चप्रतिबन्धः पुद्गलस्य स्कन्धेष्वस्ति ततो तत्स्वभावत्वेपि नान्यत्त्वं स्कन्धेभ्यः पुद्गलस्येति ।
कोयमित्यादिना प्रतिषेधति । कोयं प्रतिबन्धो नाम पुद्गलस्य स्कन्धेषु येन प्रतिबन्धेन । स च न स्यादिति स्कन्धस्वभाश्च पुद्गलो न स्यात् । नान्यस्वभावश्च स्कन्धेभ्यः। अन्यः स्वभावोस्येति विग्रहः।।
स्कन्धेभ्यः पुद्गलस्य जन्म तदेव जन्म प्रतिबन्ध इति चेत् ।