________________
५२६ प्रमाणवात्तिकस्ववृत्तिटीका (११२८१)
भावोऽवश्यं भवन्तमपेक्षते (1) स च स्वभाव एव। नि(:)स्वभावस्य क्वचिद् व्यापारे समावेसा (? शा) भावाद् (1) व्यापार इति हि तथाभूतस्वभावोत्पत्तिः (1) सा निःस्वभावस्य कथं स्यात्। कथमिदानीं भवत्यभावः शशविषाणमित्यादिव्यवहारः। न वै शशविषाणं किंचिद् भवतीत्युच्यते। अपि त्वेवमस्य न भवतीति भावप्रतिषेध एव क्रियते।
__ अपि च व्यवहार एतदेवं व्यापारवदिव समारोप्यादर्शयन्ति प्रकरणेन केन चित। न त तत्तथा (1) सर्वार्थनि (? विवेचनं हि तत्र तत्त्वमन्यत्त्वं न
वस्तुनो भवने एष तत्त्वान्यत्त्वविकल्पः स्यात्। किं कारणम् (।) भवनस्य विधेवस्त्वनुरोधतः।
नन्वतिशयोत्पत्तावपि स एव तस्यातिशय उत्पन्न इति कथं नष्टो नाम (1) तेन नायं तदवस्थो नष्टो नाम। येन स्वयं न भवति। तेन नष्टो नार्थान्तरोत्पादादित्युक्तं। न ह्यतिशयोत्पत्त्या स्वयं न भूतो नाम (1) अभावस्य सर्वातिशयोपाख्या निवृत्त्या सर्वभावधर्मविवेकलक्षणत्वात्। भावस्य चोत्पत्तिसमावेशलक्षणत्वात्।
भाव इत्यादिना व्याचष्टे। भावो भवनमुत्पाद इति यावत् । सोवश्यम्भवन्तमपेक्षते। भवितारमपेक्षते (1) भवितारमन्तरेण भवनस्याभावात्। स च भाव: व्यापारे स्वभाव एव वस्त्वेव। किं कारणं (1) निःस्वभावस्य क्वचिद् भवतीत्यादिके समावेशाभावात्। सम्बन्धाभावात् । न च व्यापारो नामार्थान्तरं। किन्तु व्यापार इति हि यथाभूतस्वभावोत्पत्तिविशिष्टस्वभावोत्पत्तिः (1) सा चोत्पत्तिनिःस्वभावस्य नाशस्य कथं स्यात् । __ यदि निःस्वभावस्य नास्ति व्यापारसमावेशः कथमिदानीम्भवत्यभावः शशविषाणमित्यादिव्यवहारः श शविषाणमभावो भवतीति भवनलक्षणेन व्यापारेण व्यवहार इत्यर्थः । आदिशब्दाद् वन्ध्यासुतोऽभावो भवतीति परिग्रहः ।
नेत्यादिना परिहरति। न वै शशविषाणं किंचिदभावोन्यद्वा भवतीति विधिनोच्यते। अपि त्वेवमिति शशविषाणमभावो भवतीत्यनेन वाक्येनास्येति शशविषाणस्याभावो भवति (1) भावो न भवतीति भावप्रतिषेध एव क्रियते। अपि च व्यवहारः पुरुषाः। एतच्छशविषाणादिकमेवमभावो भवतीति व्यापारवदिव समारोप्यादर्शयन्ति । केनचित् प्रकरणेन । किं शशविषाणादिकमभावो भवति न भवतीति प्रस्तावसमाश्रयेण। न तु तच्छशविषाणादिकं व्यवहारमात्रेण तथा व्यापारयुक्तम्भवति। यस्मात् सर्वार्थविवेचनं सर्वार्थस्वभाव विरहस्तत्र शशविषाणादौ तत्त्वं । न त्वसतः कस्यचिद् भवनादेः समावेशः ।।