________________
ङ. निर्हेतुक-विनाशः
५२५ स्वभावावस्थितिलक्षणत्वात्। तत्स्थितिश्च तदन्यव्यतिरेके सति स्यात् । स च नास्तीत्य प्रवृत्तिनिवृत्तिकं जगत् स्यात्। तस्माद् यस्य नासो (? शो) भवती- 38a त्युच्यते। स स्वयमेव न भवतीत्युक्तं स्यात्। न वै घोषसाम्याद् विषयान्तरदृष्टो विधिः सर्वत्र योजनामर्हति। न हि गर्दभ इति नामकरणाद बालेयधर्मा मनष्यपि योज्याः। तथा न चैत्रस्य पुत्रो भवतीत्यत्र दृष्टो विधिविनाशेपि विरोधात् । एवं चाभिधानेपि प्रयोजनमावेदितमेव (1) अतः (1)
भावे ह्येष विकल्पः स्याद्विधेश्वस्त्वनुरोधतः ।।
यथोक्तेन प्रकारेण व्यतिरेकाभावादन्वयोपि न स्यात् । अन्वयः कस्यचिदर्थस्यानुगमो विधानन्तन्न स्यादित्यर्थः। किं कारणं (1) तस्यान्वयस्यैकस्वभावस्थितिलक्षणत्वात् । तस्थितिश्चैकस्वभावस्थितिश्च तस्मादन्यस्य व्यतिरेके परिहारे सति स्यात् । स च तदन्यव्यतिरेको नास्ति त्वन्मतेन। इति एवं शब्दादप्रवत्तिनिवृत्तिकं जगत् स्यात्। शाब्दस्य विधिप्रतिषेधव्यवहारस्याभाव: स्यात्। न चैवमित्यवश्यं कस्यचिद् व्यवच्छेदमात्र शब्दवाच्यमभ्युपगन्तव्यं ।
यतश्चैवन्तस्माद् यस्य भावस्य नाशो भवतीत्युच्यते स स्वयमेव न भवतीत्युक्तं स्यात् (1) न पुनरस्य धर्मान्तरं किञ्चिन्नाशो नाम विधीयते। चैत्रस्य पुत्र इत्यत्र यथा वास्तवो भेदस्तथा भावस्य नाश इत्यत्रापि व्यतिरेकविभक्तेस्तुल्यत्वादित्यत आह। नेत्यादि। न वै घोषमात्रेण चैत्रस्य पुत्र इत्यनेन शब्देन साम्याद् विषयान्तरदृष्टो विधिः। चैत्रस्य पुत्र इत्यत्र दृष्टोविधिर्वास्तवो यः स सर्वत्र भावस्य नाश इत्यत्रापि योजनामर्हति (1) शब्दप्रवृत्तिमात्रेण वस्तुयोजनाया अयोगात्।
एतदेव न हीत्यादिना प्राह। कस्यचित् पुरुषस्य गर्दभ इति नामकरणात 186a बालेयधर्मा गर्दभस्य धर्मा मनुष्येपि न हि योज्याः। तथा न चैत्रस्य पुत्रो भवतीत्यत्र वाक्ये दृष्टो विधिरर्थान्तरस्य पुत्रस्य विधानं दृष्टमिति नाशेपि योज्यः। भावस्य नाशो भवतीत्यत्रापि भावाद् व्यतिरेको नाशो विधेयः। किं कारणम् (1) विरोधात् । नाशस्याभावरूपत्वादभावस्य भवन विरोधादित्युक्तं।
यदि नाशो नार्थान्तरं कस्माद् भावस्य नाशो भवतीत्येवमभिधीयत इति (1)
अत आह। एवं चेत्यादि। भावस्य नाश इत्यभिधानेपि प्रयोजनमावेदितमेव। "अर्थान्तरमिव धर्मिणो धर्म चेतसाविभज्य तन्मात्रजिज्ञासायां स्वभाव एव तथोच्यत"५ इत्यादिना निवेदितत्वात् ।
तस्मादभावस्याकिचित्त्वात् तत्त्वान्यत्त्वविकल्पो न तुल्यः। अतो भावे