________________
185b
1
५२४
प्रमाणवार्तिकस्ववृत्तिटीका ( ११२८० )
प्रतिषेध एष न पर्युदासः । अथेहापि कस्यचिद् भावे न प्रतिषेधपर्युदासयोरूपभेदः स्याद् (1) उभयत्र विधेः प्राधान्याद् ( 1 ) एवं वा प्रतिषेधात् कस्यचित् पर्युदासोपि क्वचिन्न स्याद् । यदि हि किंचिन्निवर्त्तेत तदा तद्वयतिरेकि संस्पृश्येत । तत्पर्युदासेन । तच्च नास्ति सर्वत्र निवृत्तिर्भवतीत्युक्ते कस्यचिद् भावस्यैव प्रतीतेः । तेषां च तेनार्थान्तरभावः एवोक्तः स्यात् । न तयोः परस्परं विवेकोs - विवेके च न पर्युदासः । तदेवं व्यतिरेकाभावादन्वयोपि न स्यात् (1) तस्यैक
त्वेवमपि कथं द्वितीयक्षणे भावो न भवती तीष्यते ( 1 ) यतो यदि द्वितीयक्षणे भावस्तदा कथन्तत्र नास्तीतीष्यते विरोधात् । अथ नास्ति तदा कथं भावो नास्तीत्युच्यतेऽसत्त्वादिति ।
तदयुक्तं । यतः प्रथमेपि क्षणे भावो भवतीति लोकेभिधीयते । तत्र च यदि भावः कथम्भवतीत्युच्यते । तस्मात् सर्वत्र बुद्धिस्थमेव भावं कृत्वा विधिप्रतिषेधव्यवहार इति यत्किञ्चिदेतत् ।
तस्मात् स्थितमेतत् (1) तदा स भावो न भूतो यदि स्वयं न भवेदिति । ननु स्वयम्भावो न भवतीत्यनेनापि वाक्येन स्वयमेवाभावो भावस्य भवतीत्युच्यते । तदा च स एव दोष इत्यत आह । न भवतीति चेत्यादि । चशब्दो यस्मा दर्थे। यस्माद् भावो न भवतीति च प्रसज्यप्रतिषेध एषः । न पर्युदासः । यत्रप्रसक्तस्य निवृत्तिमात्रमेव क्रियते न वस्त्वंशस्य संस्पर्शः स प्र - सज्यप्रतिषेधः । यत्र त्वेकनिषेधेनान्यविधानं स पर्युदासः । अन्यथेहापि प्रसज्यप्रतिषेधेपि कस्यचिद्व
नोभावे । विधाने सति । न प्रतिषेधपर्युदासयो रूपभेदः स्वभावभेदः स्यात् । प्रसज्यप्रतिषेधः प्रतिषेधशब्देनोक्तः । किं कारणम् (1) उभयत्रापि प्रसज्ये पर्युदासे च। विधेः प्राधान्यात् ।
यदि च प्रसज्यप्रतिषेधेपि विधिस्तदा प्रतिषेध एव नास्ति । एवं चाप्रतिषेधात् कस्यचित् पर्युदासोपि न स्यात् क्वचित् । किं कारणम् । यदि हि किंचिद्वस्तु कुतश्चिन्निवर्त्तेत । तदा तद्व्यतिरेकि । निवर्त्तमानाद् वस्तुनो व्यतिरेकि संस्पृश्येत । तत्पर्युदासेन निवर्त्यमानपर्युदासेन । यथाऽब्राह्मणमानयेति ब्राह्मणपर्युदासेन क्षत्रियादेः संस्पर्शात् (1) तच्च कस्यचिन्निवर्त्तनमेव नास्ति । किं कारणं (1) सर्वत्र' कस्यचिन्निवृत्तिर्भवतीत्युक्तेपि न भावव्यवच्छेदः कस्यचित् प्रतीयतेऽपि तु निवृत्तिशब्देनापि कस्यचिद् भावस्यैव प्रतीतेः । न चानेन वादिना भावस्य निवृत्ति ब्रुवाणेनापि निवृत्तिनैवोक्ता किन्त्वर्थान्तरभाव एवोक्तः स्यात् । तथा च यस्य पर्युदासेन यद्विविक्तमुच्यते न तयोः परस्परविवेकः सिद्धः । असति च विवेके न पर्युदासः । तदन्यविवेकेनान्योपादानलक्षणत्वात् पर्युदासस्य । तदेवं