________________
ङ. निर्हेतुक-विनाशः
५२३ इत्युक्तं (1) न ह्ययं विनाशोऽन्यो वा कश्चिद् भवतीत्याह। किन्तर्हि (1) स एव भावो न भवतीति। यदि हि कस्यचिद् भावं ब्रूयान्न भावोनेन निवर्तितः स्यात् (1) तथा भावनिवृत्तौ प्रस्तुतायामप्रस्तुतमेवोक्तं स्यात्। न हि कस्यचिद् भावेन भावो न भूतो नाम। तदा न भूतो यदि स्वयन्न भवेत् । न भवतीति च प्रसज्य
एतदेव स्फुटयन्नाह। न हीत्यादि । न ह्ययमहेतुकविनाशवादी भावस्य स्वहेतोनिष्पन्नस्य कश्चिद् भावरूपोऽभावरूपो वा विनाशोन्यो वा स्थित्यन्यथात्वादिको धर्मो भवतीत्याह । किन्तहि स एव भावो न भवतीति भावनिवृत्तिमात्रमाह। तेनायमर्थः (1) प्रथमे क्षणे भावोऽभूतो भवति। द्वितीये क्षणे तस्य न भावो भवति नाभावो वा । नापि स्वरसहानिर्वा भवति। केवलं स्वयमेव निवर्त्तते।
यदि पुन शाभिधानेन कस्यचिद्धर्मस्य भावमुत्पादं ब्रूयान्न भावोनेन वादिना निवर्तितः स्यात् । भावनिवृत्तिर्न कथितेति यावत्। तथा च भावनिवृत्तौ प्रस्तुतायामर्थान्तरस्यान्यस्य विधानावप्रस्तुतमेवोक्तं स्यात्। किं कारणं (1) न हि कस्यचिद् विनाशाख्यस्याभावस्य भावनिवृत्तिरूपस्य वा भावनोत्पादेन भावः पदार्थो न भूतो नाम। येन तद्विधानेन भावस्य स्वनिवृत्तिः स्यात् ।
एतदुक्तम्भवति । यथा भावस्य विज्ञानभावे भावो न निवर्तते केवलन्तद्विज्ञानन्तत्सम्बन्धि स्यात्। तथा भावस्य निवृत्तिर्भवतीत्यभ्यपगमे स एव निवत्या ख्यो धर्मस्तत्सम्बन्धी स्यान्न तु भावो निवर्तेतेति कथमस्य निवृत्तिः स्यात् । तस्मात्तदा स भावो न भूतो निवृत्तो यदि स्वयं न भवेत्।
तेन यदुच्यते। नन्वभवनमपि यदि भावस्य न भवति। तदाऽविनाशित्वं । अथ भवति। तद्भिन्नम्वा स्यादभिन्नम्वाऽनयोश्च पक्षयोर्भावस्य सर्वदा दर्शनं स्यादविनाशात् । तस्मान्नाभावस्य विनाशः (1) कथन्तर्हि भावः सर्वदा न प्रतीयते प्रमाणाभावादिति (1)
तदपास्तं । दृश्यस्य हि सत्तायाः प्रमाणविषयत्वेन व्याप्तत्वात्। तदभावादंभावः । भावे वावश्यं प्रमाणविषयत्वमिति कथमप्रतिपत्तिः। अथादृश्यरूपतयास्य भावस्तदा तर्हि दृश्यरूपताया निवृत्तिः। सा च भावाद्भिन्नाऽभिन्ना वा (1) अनयोश्च पक्षयोर्भावस्य दर्शनं स्यादिति दोषस्तदवस्थ एव । तस्माद् भावस्याभवन मपि न भवति। नाप्यविनाशित्वदोषः । स्वरूपेण निवृत्तेः ।
ननु भावनिवृत्तेर्नीरूपत्वेन रूपिणो भावादन्यत्त्वमिति चेत् ।
ननु यस्य रूपमेव न विद्यते तस्य कथमन्यत्त्वं। तत्किमेकत्वमस्तु । तदपि नास्त्यरूपत्वात्। तस्माद् भावेन सहास्यास्तत्त्वान्यत्त्वनिषेधमात्रं क्रियते। शशविषाणवत्।