SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२८०) . विभज्य तन्मात्रजिज्ञा (सा)यां स्वभाव एव तथोच्यते। तदेतत् मन्दबुद्धयः क्वचि:तथादर्शनात् घोषमात्रविप्रलब्धा नाशं गुणं तस्य च भावमारोप्य सहेतुकमहेतुकं वा। अप्रतिष्ठिततत्त्वया भावचिन्तयात्मानमाकुलयन्ति । स्वतोपि भावेऽभावस्य विकल्पश्चेदयं समः। नन्वपरभावित्वेपि विनाशस्य स्वत एव भावस्य भवतोयं तत्त्वान्यत्त्व विकल्पस्तुल्यः। तदा किमर्थान्तरभावे भावो न दृश्यते ऽनन्तरत्वेपि तदेव तद् भवति । तन्न किंचिदस्य जातमिति कथं विनष्टो नाम। नन्वत्र। न तस्य किञ्चिद् भवति न भवत्येव केवलम् ॥२८॥ न्नाशित्वन्तत्वतो व्यवस्थापितमपि मन्दमतयो नाशं गुणं धर्मं समारोप्यात्मानमाकुलयन्तीत्यनेन सम्बन्धः । कस्मात् पुनस्त एवमाकुलयन्तीतित्याह। क्वचिदित्यादि। राज्ञः पुरुष इत्यादौ व्यतिरेकविभक्तिप्रयोगे तथादर्शनात् । सम्बन्धिनोविभागदर्शनात् । इहापि भावस्य नाशो भवतीत्यनेन घोषणामात्रेण विप्रलब्धाः। भावस्य व्यतिरिक्तं नाशं गुणं धर्मं समारोप्य। तस्य च यथा कल्पितस्य गुणस्य भावं सत्तां समारोप्य। तं नाशाख्यं गुणं सहेतुकमहेतुकम्वा दर्शनभेदेन समारोप्य भावबिन्तया वस्तुचिन्तया। किंभूतया (1) अप्रतिष्ठिततत्त्वया। अप्रतिष्ठितन्तत्त्वं यस्यां चिन्तायां। तयात्मानमाकुलयन्ति। स्वतोपीत्यादिना पराभिप्रायमाशंकते। यस्यापि स्वयमेवाहेतुको नाशो भवति। तस्यापि स्वतोप्यभावस्य विनाशस्य भावेङ्गीक्रियमाणे। अयन्तत्त्वान्यत्त्वलक्षणो विकल्पश्चेतसः। नन्वित्यादिना व्याचष्टे । न परभावित्वमपरभावित्वमहेतुकत्वेपीत्यर्थः। भावस्य वस्तुनो यो नाशस्तस्य स्वत एव भवतः। अयन्तत्त्वान्यत्त्वविकल्पस्तुल्यः (।) किमर्थान्तरन्नाशो भावादूत भाव एवेति। तत्र यद्यर्थान्तरन्तदा किमर्थान्तरस्य नाशस्य भावे सत्तायाम्भावो न दृश्यते। अथानन्तरं विनाशस्तदानर्थान्तरत्वेपि तदेव घटादिकमेव तन्नाशख्यम्भवति । तत्तस्मान्न किञ्चिदस्य पदार्थस्य जातमिति कथं विनष्टो नाम। नन्वित्यादिना परिहरति। अत्र प्रस्तावे। उक्तं (1) किमुक्तं (1) न तस्य 18sa भावस्य किंचिद् व्यतिरिक्तम्वा नाशाख्यं धर्मरूपम्भवति । कथन्तर्हि विनाशी भाव इत्याह। न भवत्येव केवलमित्युक्तं प्राक् ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy