________________
ङ. निर्हेतुक-विनाशः
५२१ स्वहेतुभ्यस्तथाभूतो भवति। तन्न केनचिद् भवता स नष्टः। किन्तर्हि (1) स्वभाव एवास्य येन स नष्टो नाम (1) कथन्तहि (इ) दानीमहेतुको विनाशः(1) भवतीत्युच्यते।
नश्यन् भावो परापेक्षः इति तज्ज्ञापनाय सा।
अवस्थाऽहेतुरुक्तास्या भेदमारोप्य चेतसा ।। (२७९) न भावो जातो परस्मान्नाशं प्रतिलभते (1) तथाभूतस्यैव स्वयंजातेरित्यपरापेक्षधर्मान्तरप्रतिषेधार्थन्तत्स्वभावज्ञापनेनार्थान्तरमिव धर्मिणो धर्म चेतसा
यस्मान्न हि भावस्य निष्पन्नस्य किञ्चिद्रूपान्तरम्विनाशाख्यमन्यद्वा कदाचिद् भवति । स एव भावः केवलं स्वहेतुभ्यस्तथाभूत एकक्षणस्थायी भवति। तदिति तस्मान्न केनचिद्विनाशाख्येन भवता। स भावो नष्टो नाम। किन्तहि (1) स्वभाव एवास्य भावस्य स एकक्षणावस्थानशीलः । येन स भावो नष्टो नाम । अन्यथा स्वयमतत्स्वभावत्वेन्यसन्निधानेप्यनाशात् ।
यदि नाशो नाम न किञ्चित्। कथन्तीदानीमहेतुको नाशो भवतीत्युच्यते भवद्भिः। यस्य हि स्वभाव एव नास्ति तस्य किमहेतुकः सहेतुको वेति चिन्तया। 184b भावस्य नाश इति व्यतिरेको वा कथं ।
• नश्यन्नित्यादिना परिहरति । भावो नश्यन्न'परापेक्षः। परं विनाशहेतुं नापेक्षत इति कृत्वा। न ज्ञापनायेत्यपरापेक्षत्वज्ञापनाय। सा नाशावस्थास्माभिरहेतुरुक्ता। तस्या नाशावस्थायाश्चेतसा विकल्पबुद्धया भावाद् भेदं व्यतिरेकमारोप्य ()
एतदुक्तम्भवति (1) अहेतुको भावस्य विनाशो भवतीति सहेतुकोस्य विनाशो न भवतीत्यर्थः।
नेत्यादिना व्याचष्टे। न भावो जातः सन्नपरस्माद् विनाशहेतो शं प्रतिलभते। किं कारणं (1) तथाभूतस्यैव नश्वरस्वभावस्यैव स्वयं सत्ताहेतोरेव . जातेरुत्पत्तेः। इति हेतोरपरमन्यम्विनाशहेतुत्वेन कल्पितमपेक्षत इत्यपरापेक्षः । तथाभूतश्चासौ धर्मश्च विनाशाख्यः । अपरापेक्षधर्मस्तस्य प्रतिषेधार्थ । सहेतुकविनाशप्रतिषेधार्थमिति यावत्। तत्स्वभावज्ञापनेनेति भावस्य विनश्वरस्वभावज्ञापनेन। स्वभाव एव तथोच्यत इत्यनेन सम्बन्धः । तथोच्यत इत्यहेतुकोस्य विनाशो भवतीत्युच्यते। कदाचित्तन्मात्रजिज्ञासायां। भावस्यान्यस्मात् किम्विनाशो भवति न चेत्येतावन्मात्रजिज्ञासायां। केन प्रकारेणोच्यते। धर्मिणः सकाशाद् अर्थान्तरमिव विनाशाख्यं धर्म चेतसा बुद्ध्या विभज्यास्य भावस्य विनाश इति विभागं कृत्वा। तदेतद् यथोक्तेन प्रकारेणाभावादव्यतिरिक्त
६६