________________
प्रमाणवार्त्तिकस्ववृत्तिटीका (१।२७८ )
कथमसन् विनाशो भावं नाशयेद् (1) अतो विनाशी भाव: स्यादित्यप्यप्रसंग एव (1) विनाशाद् भावनाशानभ्युपगमात् । यो हि विनाश इति किंचिन्नेत्याह । स कथं ततो भावनाशमिच्छेत् ।
५२०
कथमिदानीमसति विनाशे भावो नष्टो नाम । न ह्यस द्विनाशास्तामपेक्षन्ते प्रत्युत्पन्नावस्थायां (1) न हि यो येन ( 1 ) तद्वान् स तेन तथा व्यपदिश्यते 37b प्रतीयते वा ( 1 ) यथाश्वो विशा (? षा) णेन । न वै विनाशो नास्त्येव । स तु नास्ति यो भावस्य भवति । भाव एव तु क्षणस्थितिधर्मा विनाशः । तमस्य स्वभावं उत्तरकालं विभावयन्तो विनाशोऽस्य भूत इति यथाप्रतीति व्यपदिशन्तीत्युक्तं । न हि भावस्य किञ्चित् कदाचिद् भवति ( 1 ) स एव केवलं
सत्त्वे सत्यभावनाशित्वप्रसंग ः । भावस्य नाशित्वं न स्यादित्ययमपि प्रसङ्गो न युज्यते । यस्माद् भावस्य नाशेनार्थान्तरेण नास्माभिविनाशनमिष्यते ।
कथमित्यादिना व्याचष्टे । कथमसन् विनाशो भावं नाशयेदसतो व्यापारायोगात् । अतः कारणादविनाशी भावः स्यादित्यप्रसंग एव । किं कारणम् ( 1 ) विनाशादर्थान्तरभूताद् भावस्य नाशानभ्युपगमात् ।
यो हीत्यादिनैतदेव समर्थयते । यो हि वादी विनाश इति किंचितेत्याह । स कथन्ततो निःस्वभावान्नाशाद् भावस्य नाशमिच्छेत् ( 1 ) नेच्छेत् ।
कथमित्यादि परः । असत्यविद्यमाने विनाशे कथम्भावो नष्टो नाम । नैव विनष्टः स्यात् । तथा हि प्रत्युत्पन्नावस्थायामसद्विनाशाः । असद्विनाशो येषामिति विग्रहः । ते न हि नष्टा गण्यन्ते । यदा च भावस्य नाशो नास्ति तदा कथन्तेन स व्यपदिश्यते नाशवानिति । न हि यो येन स्वभावेनातद्वान् असम्बन्धवान् । स पदार्थस्तेनासम्बन्धिना तथा व्यपदिश्यते । तद्वानिति व्यपदिश्यते शब्देन । प्रतीयते वा ज्ञानेन ।
नेत्यादिना परिहरति । न वै भावस्य नाशो नास्त्येवापि त्वस्त्येव नाशः । कथन्तर्हि नास्तीत्युच्यते । स तु नास्ति नाशो यो भावस्य भवति । यदि विनाशो न भवति कथन्तर्हि विनाशोस्तीत्युच्यत इति ( 1 )
आह । भाव एव तु क्षणस्थितिधर्मा । एकक्षणस्थायी नाशः । यदि भाव एव नाशः कथन्तर्हि भावस्य नाशो भूत इति लोको व्यपदिशतीति (1) अत आह । तमस्येत्यादि । अस्य भावस्य तमेकक्षणस्थायिस्वभावं सदृशापरोत्पत्तिविप्रलम्भादुपलक्षितं । उत्तरकालं सन्तानोच्छित्तावनुपलम्भेनास्थितिप्रतिपत्त्या । विभावयन्तो निश्चिन्वन्तः । विनाशोस्य भावस्य भूत इति यथा प्रतीति व्यपदिशन्ति व्यवहारिणः पुरुषा इत्युक्तं प्राक् ।