SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ . ङ. निर्हेतुक-विनाशः ५१६ न कस्यचिद्धतुरहेतुश्च नापेक्षते। तस्मात् स्वयमयं भावस्तत्स्वभाव इति सिद्धः॥ - अहेतुत्वेपि नाशस्य नित्यत्वाद् भावनाशयोः (1) सहभावप्रसङ्गश्चेदसतो नित्यता कुतः ॥ (२७७) स्यादेतत् (1) यद्यपि विनाशोऽहेतुकः सोवश्यं नित्य इति । भावस्तवमा (व)लक्षणो विनाशश्च सह स्यातामिति। न (1) तस्य नित्यं नित्यधर्मायोगात्। न ह्यसत्ययं विकल्पः संभवति । तयोर्वस्तुधर्मत्वात् तद्विनाशस्य चाकिंचित्त्वात् । भवतो हि केनचित् सहभावः स्यात् । न च विनाशो भवति । तस्माददोषः॥ असत्त्वेऽभावनाशित्वप्रसङ्गोपि न युज्यते । यस्माद् भावस्य नाशेन न विनाशनमिष्यते ।। (२७८) अत आह। उपकारेत्यादि। रूपनिष्पादनलक्षणत्वात्। सद्रूपनिष्पादनलक्षणत्वात्। ततश्च तद्वा वस्तु तेन विनाशकेन कर्त्तव्यमन्यद्वा। उभयथा चोक्तो दोष इति। तदतक्रियाविकलो नाशहेतुर्न कर्तवैति न कस्यचिद्धेतुः। अहेतुश्च दण्डादि नापेक्ष्यते विनश्वरेण घटादिना। तस्मात् स्वयं सत्तामात्रेणायम्भावस्ततत्स्वभावो विनश्वरस्वभाव इति । प्रध्वंसाभावन्नाशं गृहीत्वा परस्य चोद्यमाशंकते। अहेतुत्वेपीत्यादि अहेतुहि भवन्नित्यम्भवेत्। नित्यत्वाच्च भावकालेपि नाशो भवेदित्येवम्भावनाशयोः सहभावप्रसङ्गश्चेत्। नायन्दोषः (1) किं कारणम् (1) असतः प्रध्वंसलक्षणस्य नाशस्य नित्यता कु.। स्यादेतदित्यादिना व्याचष्टे। यद्यपि नाशः क्षणिकवादिनोव्हेतुकः सोवश्यं नित्य इति कृत्वा भावस्तदभावलक्षणो विनाशनिवृत्तिरूपः। विनाशश्च तदभावलक्षणो भावनिवृत्तिरूपः। एकस्य सह स्यातामिति । नैतदेवं। कस्मात् (1) तस्याभावस्यावस्तुत्वेन नित्यादिधर्मायोगात् । न सत्ययन्नित्यानित्यविकल्पस्सम्भवति। तयोनित्ययोर्वस्तुधर्मत्वात्। विनाशस्य च भावनिवृत्तिलक्षणस्याकिञ्चित्त्वात्। 184a किं च (1) भवतो ह्यत्पद्यमानस्य नित्यं सत्त्वात् केनचित् सहभावः स्यात् (1) न च विनाशो भवति। केवलमेकक्षणस्थितिधर्मा भावः स्वयमेव न भवतीति क्रियाप्रतिषेधमात्रमेतत्। तस्माददोषोनन्तरोक्तः। पुनरपि पराभिप्रायमाशंकते। यदि विनाशो सन्निष्यते तदा विनाशस्या
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy