________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।२७६ )
अनर्थान्तरभूतो विनाशः काष्ठात् । तदेव तद् भवति । तच्च प्रागेवास्तीति किमर्थ (? सामर्थ्य ) स्वन्यादीनां । तस्मात् तदनुपकारात् तेन नापेक्षन्ते कथं चिन्नाप्यस्येदमिति सम्बन्धमर्हति । तस्योपकारनिबन्धनत्वाद् ( 1 ) अन्यथातिप्रसंगात् ।
५१८
पारंपर्येणोपकारेप्य' वश्यमयं विकल्पोन्वेति ( 1 ) तत्किमुपकारोर्थान्तरमाहोरिव (? स्वि) त् तवेवेति । तदर्थान्तरत्वेपि तस्येति पुनरुपकारत्वादिपर्यनुयोगस्तववस्थः। तथाऽनन्यत्त्वे । तस्मात् सतो रूपस्य तत्त्वान्यत्त्वाव्यतिक्रमात् । उपकारोत्पावनस्य च रूपनिष्पादनलक्षणत्वात् । तवतत्क्रियाविकलो न कर्तेवेति *
वयादिभिः किञ्चित् कर्त्तव्यमिति तत्स्वभावस्य नाशस्याहेतुत्वं । नातस्तत्त्वान्यत्वविकल्पान्नाशस्य वस्तुधर्मस्य विद्यतेन्या गतिः ।
अनर्थान्तर इत्यादिना व्याचष्टे । काष्ठादनर्थान्तरभूतो यदा विनाशस्तदा 183 तदेव काष्ठमेव तद्विनाशाख्यम्वस्तु' भवति । तच्च काष्ठादि । वह्न्यादिसन्निधानात् प्रागेवास्तीति । किमत्र काष्ठादौ विनाश्ये सामर्थ्यम्वह्नधादीनामिति द्रष्टव्यं । क्वचिद् दण्डादीनामिति पाठः स तु घटादीन् पुरोधाय व्याख्येयः । तस्मात् तबनुकारात् । तत्र काष्ठादौ विनाशहेतुनामनुपकारात् तेन काष्ठादिना विनाशहेतवो नापेक्ष्यन्ते कथंचित् केनापि रूपेण । नाप्यस्य काष्टादेरिदम्वह्नचादिकं विनाशहेतुरिति सम्बन्धमर्हति । किं कारणं (1) तस्योपकारनिबन्धनत्वात् । अन्यथोपकारमन्तरेण सम्बन्धकल्पनायामतिप्रसंगात् । सर्वः सर्वस्य सम्बन्धी स्यात् । स्यादेतत् (1) न साक्षाद् वन्हयादिः काष्ठादेरुपकारकः किन्तु तत्सम्बन्धिभूतोपकारकरणादिति ( 1 )
अत आह। पारम्पर्येणेत्यादि । वन्यादिना काष्ठादेः सम्बन्धिभूत उपकारः 'क्रियते न साक्षादिति ( 1 ) एवं पारम्पर्येणोपकारेपि कल्प्यमानेऽवश्यमय विकल्पोन्वेत्यनुगच्छति । स किम्पारम्पर्येणाप्युपकारोर्थान्तरमाहोस्वित् तदेव काष्ठादिकमिति । तत्र तस्मात् काष्ठादेरर्थान्तरत्वेप्युपकारस्य । तस्य काष्ठादेरयमुपकार इति कस्सम्बन्ध इति । तत्र काष्ठादौ तस्याग्निकृतस्योपकारस्योपकारकत्वं पर्यनुयोज्यं । तदन्तरेण सम्बन्धाभावात् । आदिशब्दात् तत्राप्यपरोपकारकल्पनेत्यनवस्थादोषादिपरिग्रहः । तथानन्यत्वेप्युपकारस्य तदवस्थः पर्यनुयोगः स्यान्नाशः काष्ठमेवेत्यादिना य उक्तः तस्मात् सतो विद्यमानस्य रूपस्य तत्त्वान्यत्त्वाव्यतिक्रमात् कारणात् ।
स्यादेतत् (1) सतो रूपस्य तत्त्वान्यत्त्वाव्यतिक्रमाद् विनाशहेतुकृतं तूपकारो - त्पादनमसदेवेति (1)