________________
ङ. निर्हेतुक-विनाशः
५१७ यथाऽत्राप्येवमिति चेत् हन्तु मरणत्वतः (१२७५) विनाशविनाशेपि न वस्तुनः प्रत्यापत्तिः (1) न हि हन्तरि हतेपि तद्वतः प्रत्युज्जीवतीति चेत् (1) न (1) हन्तुस्तद्धातहेतुत्वात् । न ब्रूमो विनाशहेतोरग्निदण्डादेनिवत्तौ भावेन भवितव्यमिति। किन्तहि (1) भावाभावस्यात्यन्तानुपलब्धिलक्षणस्य। तन्निवृत्तौ कान्या गतिः स्वभावस्थितेः। हन्ता हि चैत्रस्य न नाशकल्पः (1) किन्तहि (1) दण्डादिकल्पः। नाशकल्पं ह्यस्य मरणं तन्निवृत्तौ स्यादेवास्य पुनर्भवः॥
अनन्यत्त्वे विनाशस्य स्याग्नाशः काष्ठमेव तु (1) तस्य सत्त्वादहेतुत्वं नातोन्या विद्यते गतिः ।। (२७६)
हन्तुरित्यादिना प्रतिविधत्ते। नेदं समाधानं युक्तं। किं कारणं (1) हन्तुरमरणत्वतः। न हि हन्ता चैत्रस्य मरणस्वभावः। किन्तर्हि (1) मारयिता। ततो युक्तं यत् तन्नाशे चैत्रस्यापुनर्भवनं । मरणे त्वनिवृत्तेऽवश्यं पुनर्भवनं स्यात् । _ विनाशेत्यादिना व्याचष्टे। विनाशस्य विनाशेपि न वस्तुनः प्रत्यापत्तिर्न पूर्वरूपगमनं। यस्मान्न हि हन्तरि हतेपि तद्वतस्तेन हन्त्रा पुरुषेण हतः प्रत्युज्जीवति । नायम्परिहारो युक्तः। कस्माद् (।) हन्तुः पुरुषस्य तद्घातहेतुत्वात् । तस्य चैत्रस्य यन्मरणन्तद्धेतुत्वात्। न त्वसौ हन्ता मरणस्वभावः । ____एतदेव स्पष्टयन्नाह। नेत्यादि। नाशहेतोरग्निदण्डादेनिवृत्तौ सत्याम्विनष्टेन भावेन पुनर्भवतिव्यमिति न ब्रूमः। एवमभिधाने भवेदेष परिहारः । किन्तहि (।) वह न्यादिना काष्ठादेर्भावस्याभावो यः क्रियते तस्य। किम्भूतस्य (1) अत्यन्तानुपलब्धिलक्षणस्य। कर्मस्था च क्रियात्रोपलब्धिः। तत्प्रतिषेधेनात्यन्तानुपलब्धिः सर्वसामर्थ्यविरह उच्यते। तस्यैवंभूतस्याभावस्य निवृत्तौ । सत्यां। स्वभावावस्थितेः सकाशाद् भावस्य कान्या गतिः। स्वभावस्थितिरेव गतिरिति यावत्।
हन्तरि तु विनष्टे न युक्तं पुनर्भवनं। यस्माद्धन्ता हि चैत्रस्य न नाशकल्पः । किन्तर्हि (1) दण्डाविकल्पः दण्डादितुल्य: नाशहेतुत्वात् । नाशकल्पं ह्यस्य चैत्रस्य मरणं (1) तन्निवृत्तौ तस्य नाशकल्पस्य मरणस्य निवृत्तौ स्यावेवास्य चैत्रस्य पुनर्भावः।
एवन्तावत् नाशस्यार्थान्तरत्वे दोष उक्तः ।
अनर्थान्तरत्वमधिकृत्याह। अनन्यत्वेपीत्यादि । वस्तुनो नाशस्यानन्यत्वेपि स्यान्नाशः काष्ठमेव तु। तस्य च काष्ठस्य स्वहेतोरुत्पन्नस्य सत्वात्। न