________________
५१६ प्रमाणवात्तिकस्ववृत्तिटीका (१।२७५) न त्वनेनैव द्रव्यं विनाशितं स्यात्। सर्वशक्तिप्रच्यावनात् पुनस्तत्राप्यग्नाविव प्रसंगादनवस्था।
अप्रच्युतेषु वा चास्याभिघातसामर्थ्यादिषु। सता वान्येनास्य न किञ्चिन्ना37a शितं ।' यदि चाग्निसमुद्भवस्य विनाशाख्यस्यार्थस्य परिग्रहान् काष्ठं न दृष्टं ॥
विनाशस्याविनाशित्वं स्यादुत्पत्तेस्ततः पुनः ।। (२७४)
काष्ठस्य दर्शन; अवश्यं हत्पत्तिमता विनाशेन विनष्टव्यं । तस्मिन् विनष्टे पुनः काष्ठावीनामुन्मज्जनं स्यात्।
हन्तृषाते चैत्रापुनर्भवः (1)
वृतानां घटादीनामभिधातादिदर्शनात्। तत्र स्वदेशे परस्योत्पत्तिविबन्धोभिघातः। आदिशब्दाद् गन्ध रसादिपरिग्रहः। अथावरणं सर्वसामर्थ्य काष्ठस्य निबध्नीयात्। तदा सर्वप्रतिबन्धे चाभ्युपगम्यमाने। न त्वनेनैवावरणेन काष्ठनाशितं स्यान्न वह्निना। किं कारणं (1) तेनैवास्य काष्ठस्य सर्वशक्तिप्रच्यावनात् । तथा च सति पुनस्तत्राप्यग्निकृतेर्थान्तरे नाशहेतावग्नाविव प्रसंगात् । काष्ठविनाशं प्रति योग्नौ दोषो विस्तरेणोक्तः सोर्थान्तरेणाप्याग्निकृतेन काष्ठनाशे क्रियमाणे स्यात्। तथा चानवस्था। तेनाप्यर्थान्तरेणाग्निकृतेन नाशेनापरमर्थान्तरन्नाशाख्यं कर्त्तव्यन्तेनाप्यपरमित्यनवस्था स्याद्।
अथ मा भूदेष दोष इत्यप्रच्युता एव काष्ठस्याभिधातादिसामर्थ्यादयः ।
तदाप्यप्रच्युतेषु वास्य काष्ठस्याभिघातसामर्थ्यादिषु । सता वा तेनान्येनाग्नि183a जनि'तेन काष्ठस्य किं विनाशितं येन तदावरणन्तथा च काष्ठं दृश्येत। यदि
चेत्यादि। (1) अग्नेः समुद्भवो यस्येति विग्रहः। अग्निसमुद्भूतेन विनाशाख्येनार्थेन परिग्रहादित्यर्थः। तदा विनाशस्य विनाशित्वं स्यात्। किं कारणम् (1) उत्पत्तेः । उत्पत्तिमत्वाद् विनाशोपि काष्ठवद् विनाशी स्यादिति यावत् । ततो विनाशविनाशात् पुनः काष्ठस्य दर्शनं स्यात्। ___ अवश्यमित्यादिना व्याचष्टे। उत्पत्तिमता सता काष्ठविनाशनावश्यं विनष्टव्यं। तस्मिन् काष्ठनाशे विनष्टे सति पुनः काष्ठावीनामुन्मज्जनं स्यात् । प्रादुर्भावो भवेत्।
हन्तघातेत्यादिना परमाशंकते। चैत्रस्य यो हन्ता तस्य हन्तुर्घाते सति यथा। हतस्य चैत्रस्यापुनर्भावः (न) पुनरनुत्पत्तिः। अत्रापि काष्ठनाशे विनष्टेप्येवं काष्ठस्यापुनर्भाव इति चेत् ।