________________
ङ. निर्हेतुक - विनाशः
कोऽयमर्थान्तरभावकाष्ठदर्शनयोविरोधः ॥
५१५
तत्परिग्रहतश्चेत् न तेनानावरणं यतः ।
यदि तेनार्थान्तरेण परिगृहीतमिति काष्ठं न दृश्येत । तत्काष्ठस्यावरणमित्यापन्नं । न चैतद् मुक्तम् (1) आवरणं हि दर्शनं विवध्नीयान्नाभिघातादीनि द्रव्यसामर्थ्यानि (1) सर्व्वप्रति ( ब ) न्धे च ।
यच्च काष्ठस्य दर्शनन्तयोः ।
अग्निजनितस्य विनाशस्यार्थान्तरस्य यो भावः । तथा च काष्ठन्तदवस्थं दृश्येत ।
ननु 'योसावर्थान्तरं भावो वह्निकृतः स काष्ठविनाशः । विनाशरूपतया प्रतीतेः । विनाशश्चाभावो यश्च काष्ठाभावः । स काष्ठविरोधिरूप एव क्रियते । न चायमर्थान्तरत्वाद् घटवद् विरोधिरूपतया कर्त्तुमशक्यः ? ( 1 ) न हि घटवदर्था-182b न्तरत्वाद् धूमोग्निकार्यो न भवति । तस्माद् यथार्थान्तरभूतोपि धूमोग्निना क्रियते, तथा विरोधिरूपो विनाशः क्रियते । ययोश्च परस्परपरिहारेण विरोधस्तयोरेकभाव एवापरस्यादर्शनमिति कथमग्निकृतस्यार्थान्तरस्य विनाशसंज्ञितस्य विरोधिनो भावे काष्ठस्य दर्शनं स्यादित्युच्यत" इति शङ्करः ।
तदयुक्तं 1 ( 1 ) यतोर्थान्तरस्याग्निकार्यत्वेन सह विरोधाभावाद् (1) धूमस्यार्थान्तरत्वेप्यग्निकार्यत्वमविरुद्धमेव । वह्निकृतस्य त्वर्थान्तरस्य भवनधर्मतया भावरूपता। यश्च भावः स कथमभावो वः ( 1 ) विरोधाद् विनाशश्चाभाव इष्यते । ततोर्थान्तरभावेन विरुद्धो विनाशः । न चार्थान्तरस्यापि विनाशरूपतया प्रतिभासनात् । काष्ठादिविनाशरूपता । स्वरसनिरोधो हि निमित्तविनाशप्रतिभासे ।
स्वरसनिरोधानभ्युपगमे तु कथमर्थान्तरस्यापि विनाशरूपतया प्रतिभासो भावरूपत्वादित्यादावेवोक्तं । तत्कथमुच्यते (1) विनाशाख्यस्यार्थान्तरस्य विरोधिनः कृतकत्वात् काष्ठस्यादर्शनमिति । नीरूपत्वे तु विनाशस्य स्याद् भावेन . सहायं विरोध: ( 1 ) किन्तु तदाप्यर्थान्तरत्वं हेतुजन्यत्वं चास्य न स्यान्नीरूपत्वादेव। तस्मादग्निनार्थान्तरस्य करणे काष्ठन्तदवस्थं दृश्येत ।
तेनाग्निकृतेनार्थान्तरेण परिग्रहतः स्वीकारात् काष्ठं न दृश्यत इति चेत् । एवं सति तदर्थान्तरं काष्ठस्यावरणमिति प्राप्तं । तच्च न युक्तं ( 1 ) यतो न तेनार्थान्तरेण काष्ठस्यावरणं सम्भवति ।
यदीत्यादिना व्याचष्टे । तेनार्थान्तरेणाग्निना कृतेन । तदित्यग्निकृतमर्थान्तरं । न चैतदावरणकल्पितं युक्तं । यस्मादावरणं हि । आव्रियमाणेर्थदर्शनम्विबध्नीयात् । नाभिघातादीनि व्रव्यसामर्थ्यानि विबध्नीयात् । अन्धकारा