SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५१४ इति स एव प्रसंगोsपर्यवसानश्च ( 1 ) तदवश्यं विनाशसम्बन्धयोग्यमुत्तरमतिशयं प्रत्युपकुर्वाणोग्निरपूर्व्वमेव जनयतीति पूर्व्वन्तदवस्थं दृश्येत । काष्ठविनाश इति च काष्ठाभाव उच्यते (1) न चाभावः कार्यः तत्कारी वा कारक एवेत्यनपेक्षणीय एवेत्युक्तं । प्रमाणवार्त्तिकस्ववृत्तिटीका ( १।२७३ ) स्वभावाभावस्य च ततो भेदे । ततो निवर्त्तमानस्य भावस्य स्वभाव एव समर्थितः स्यादिति कथमभूतो नाम । तस्मान्न (1) अन्योन्यस्य विनाशास्तु काष्ठं कस्मान्न दृश्यते ॥ (२७३) पूर्वस्य काष्ठस्य विनाश इति ( चेत् ) । कः पूर्वेण काष्ठेनास्य वह्निकृतस्य विनाशस्य सम्बन्ध इति स एव प्रसंगः। काष्ठ इति कः सम्बन्ध इत्यनन्तरमेवोक्तः । अथाप्याश्रयाश्रयिभावादिकमाश्रीयते । तदा तस्य निषेत्स्यमानत्वादित्यादि सर्वं पुनरावर्त्तते इत्यपर्यवसानश्च प्रसङ्गः स्यात् । तदिति तस्मादवश्यं विनाशसम्बन्धस्य योग्य काष्ठस्योत्तरमतिशयं प्रत्युपकुर्वाणोग्निरपूर्वमेव काष्ठञ्जनयतीति पूर्वं काष्ठन्तदवस्थन्दृश्येतेत्युपसंहारः । किञ्च । काष्ठविनाश इति काष्ठाभाव उच्यते ( । ) न चाभावः कार्यः । विधिना कार्यत्वापगमे तस्य भावत्वप्रसङ्गात् । तस्मादभावं करोति भावन्न करोतीति । क्रियाप्रतिषेधमात्रं । तथा च तत्कारी चाभावकारी वाकार एव क्रियाप्रति-षेधमात्रत्वादिति कृत्वा काष्ठविनाशेन वह्नयादिरनपेक्षणीय इत्युक्तं सामान्यतद्वतोराधाराधेयचिन्तास्थाने । किञ्च ( 1 ) स्वभावाभावस्य काष्ठादिस्वभावस्य योऽभावो नाशस्तस्य ततः काष्ठादिस्वभावाद् भेदेभ्युपगम्यमाने । ततोर्थान्तरादभावात् काष्ठादिर्भावो निवर्त्तते । ततस्तस्मादभावनिवर्त्तमानस्य काष्ठादेः स्वभाव एव समर्थितः: 5 स्यात्। असतो निवर्त्तमानस्य सत्त्वमेव समर्थितं स्यादिति कृत्वा कथमग्न्यादिकृतेन विनाशेन काष्ठादिरभूतो नाम । यत एवन्तस्मान्न अन्योन्यस्य विनाशः । अर्थान्तरमर्थान्तरस्य न विनाश इत्यर्थः । अभ्युपगम्यापि ब्रूमः ( 1 ) अस्त्वन्यो विनाशस्तस्मिन्नर्थान्तरे वह्निकृते काष्ठन्तदवस्थमेवेति कस्मान्न दृश्यते । एतदेव साधयन्नाह । कोय' विरोधः ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy