SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ङ. निर्हेतुक-विनाशः ऽग्निकृतः स्वभावो विनाशो न सर्व इति चेत् (0) काष्ठ इति कः सम्बन्धः। आश्रयाश्रयिसम्बन्धश्चेत् (1) न (1) तस्य निषेत्स्यमानत्वात्। जन्यजनकभावश्चेवग्नेरिति किं काष्ठादेव भावात् (।) तदपेक्षत्वादुत्पत्तेरदोष इति चेद् (1) अनतिशयलाभिनः कापेक्षा। लाभे वाऽपरकाष्ठजन्म स्यात् पूर्वमप्रच्युति कारणं तथैव दृश्येत। तत एवाग्नेः पूर्वविनाश इति चेत् (1) कः पूर्वेणास्य सम्बन्ध एवम्मन्यते। यथा सर्वपदार्थानामर्थान्तरत्वात न काष्ठविनाशरूपतया प्रतीतिस्तथाऽग्निकृतस्याप्यर्थान्तरत्वान्न काष्ठविनाशरूपतया प्रतीतिः स्यात्।। स्यादेतद् (1) यद्यर्थान्तरत्वादग्निकृतस्यार्थस्य न विनाशरूपता। धूमस्यापि ताग्निकार्यता न स्यादर्थान्तरत्वाद् घटवत्। भवति च तदर्थान्तरत्वाविशेषेप्यग्निकृतस्य काष्ठविनाशरूपता भविष्यतीति (1) . अत आह। अविशेषात् । तस्याग्निकृतस्य वस्तुभूतस्य काष्ठादर्थान्तरत्वेन तदन्येभ्यो घटादिभ्यो विशेषाभावात्। कथम्विनाशरूपता निवृत्तिरूपत्वाद् विनाशस्येति भावः। धूमस्य त्वर्थान्तरत्वेप्यग्निकार्यत्वं युक्तमेव। अर्थान्तरस्याग्निकार्यत्वेन सह विरोधाभावादिति यत्किञ्चिदेतत् । काष्ठेग्निकृतः स्वभावो नाशो न सर्वः घटादिस्ततो नातिप्रसंग इति चेत् । काष्ठेऽयमग्निकृतो विनाश इति काष्ठविनाशयोः कस्सम्बन्धः। परस्परमनपकार्योपकारत्वात् । नैव सम्बन्धोस्ति। काष्ठमाश्रय आश्रयोस्यास्तीत्याश्रयी विनाशः। तत आश्रयाश्रयिसम्बन्धोस्तीति चेत् । नैतदेवं । तस्याश्रयाश्रयिसम्बन्धस्य निषेत्स्यमानत्वात् । विनाशो' जन्यः। तस्य काष्ठं जनकं। ततो नाशकाष्ठयोर्जन्यजनकभाव- 182a सम्बन्धश्चेत् । तदाग्नेरिति किं। अग्नेः सकाशान्नाशो भवतीति किमुच्यते। किं कारणं (i) काष्ठादेव तस्य नाशस्य भावादुत्पत्तेः। तदपेक्षादग्न्यपेक्षात् काष्ठान्नाशस्योत्पत्तरदोषः। अग्निकृतो नाशो न स्या- . दिति यो दोष उक्तः स नास्तीति चेत्। ___ वह्नः सकाशाद(न) तिशयलाभि'नः काष्ठस्य वह्निम्प्रति कापेक्षा। नैव काचित्। वह्नः सकाशात् काष्ठस्यातिशयलाभे वाऽपरस्य द्वितीयस्य काष्ठस्यातिशयसंज्ञकस्य जन्म स्यात् । तथा च पूर्वकाष्ठमप्रच्युतिकारणं । नास्य प्रच्युतिकारणमस्तीति विग्रहः । तथैव प्राग्वद् दृश्यते। स्यादेतद (1) यत एवाग्नेरतिशयवतो द्वितीयस्य काष्ठस्य जन्म । तत एवाग्नेः
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy