________________
५१२ प्रमाणवात्तिकस्ववृत्तिटीका (१।२७३)
अस्तु वाग्निः काष्ठविनाशहेतुः। स नाशोग्निजन्मा किं काष्ठमेवाहोस्विदर्थान्तरं।
अग्नेरान्तरोत्पत्तौ भवेत् काष्ठस्य दर्शनं । (१२७२॥) अविनाशात्स एवास्य विनाश इति चेत्कथं । किमित्यर्थान्तरादर्थान्तरजन्मनि काष्ठमभूतं नाम। न दृश्यते वातिप्रसंगो ह्येवं स्यात। स एवास्य विनाश इति चेत् (1) यदि स एवाग्निजन्माऽभावस्तदिदमभूतत्वान्न दृश्यत इति ।
भवतु तस्येदन्नामाभाव इति तथापि। कथमन्योऽन्यस्य विनाशः (1) न हि कस्यचिदर्थस्य नामकरणमात्रेण काष्ठं न दृश्यत इति युक्तं । न चान्योऽन्यविनाशोतिप्रसंगात् । विशेषाभावात् तस्यार्थान्तरत्वेन वस्तुभूतस्य तदन्येभ्यः। काष्ठे
जन्मा। अग्नेर्जन्म यस्येति विग्रहः। कि काष्ठमेवाहोस्वित्काष्ठादर्थान्तरन्तत्राग्नेविनाशकम् (1)
· हेतोस्सकाशान्नाशस्त्रार्थान्तरस्योत्पत्तौ भवेत् काष्ठस्य दर्शनं। किं कारणम् (1) अविनाशात् । काष्ठस्य किमित्यर्थान्तरात् काष्ठावर्थान्तरस्य नाशस्योत्पत्तौ जन्मनि सति काष्ठमभूतं विनष्टं नाम । नैवाभूतमिति यावत्।।
यदि नामाविनष्टन्तथाप्यर्थान्तरोत्पत्या तस्य दर्शनमिति चेदाह। न दृश्यते वेति (1) किमिति न दृश्यते। दृश्यत एव। यदि त्वर्थान्तरोत्पत्यार्थान्तरं विनष्टं ___ न दृश्यते वा। तदातिप्रसङ्गो ह्येवं स्यात् । अर्थान्तरस्य यस्य कस्यचिदुत्त्पत्या
सर्वमभूतं स्यात्। न वा दृश्येत । स एव पदार्थोग्निजन्मा। न सर्वः। अस्य काष्ठस्य विनाशो लोके विनाशरूपतया प्रतीतेरिति यावत्।
एतदेव ग्रहणकवाक्यं यदीत्यादिना व्याचष्टे। यदि स एवाग्निजन्मा काष्ठस्याभावो विनाशः। तदिति तस्मादिदं काष्ठमभूतत्वाद् विनष्टत्वान्न दृश्यत इति।
भवत्वित्यादिना प्रतिषधति। भवतु तस्याग्निजन्मनोर्थस्यदनाम संज्ञा यदिदमभाव इति । तथापि नाममात्रेण कथमन्यान्यस्य विनाशः। न हि कस्यचिदर्थस्याग्निजन्मनो विनाश इति नामकरणमात्रेण काष्ठं न दृश्यत इति युक्तं ।
ननु लोकप्रतीतत्वाद्विनाश एवासौ न तस्य विनाश इति नामकरणमात्रमित्यत आह।
न चान्यः पदार्थोऽन्यस्य विनाशोऽतिप्रसंगात्। सर्वे पदार्थाः काष्ठस्य .. विनाशः स्याद् (1) एतच्चानन्तरोक्तमेव स्मरयति ।