________________
ङ. निर्हेतुक - विनाशः
५११
न च भावविशेषस्वभावस्तस्य निषेत्स्यमानत्वात् (1) तस्माद् भावमात्रस्वभावः स्यात् । तेन शब्दोन्यो वा सत्ताभाजनः सर्व्व एव भावोऽनात्यन्तिक इति सिद्धं ।
न सिद्ध (1) तस्यैव विनाशस्यापरजन्मासिद्धेः । तथा हि (1) अग्निना काष्ठं दण्डेन घटइति विनाशहेतवो भावानां दृश्यन्तेऽन्वयव्यतिरेकानुविधानं हेतुतद्वतोर्लक्षणमाहुः ।
न (1) पूर्वस्य स्वरसनिरोधेऽन्यस्य विशिष्टप्रत्ययाश्रयेण विकृतस्योत्पत्तेः ।
कृतकानामेव सतां विनाशो नान्येषां सतां । तदुक्तं (1) “सदकारण वन्नित्यमि" ति ( 1 )
न चेत्यादि । न च भावविशेषस्य कस्यचित्स्वभावो विनाशः । किं कारणं (i) तस्योत्तरत्र निषेत्स्यमानत्वात् । तस्माद् भावमात्रस्वभावः स्याद् विनाशः । सत्तामात्रस्वभावः स्यात् । तेन कारणेन शब्दोन्यो वा सर्व एव भावः सत्ताभाजनः सत्ताधारः सन्निति यावत् । अनात्यन्तिक इति सिद्धं ।
न सिद्धमिति परः । किं कारणं ( 1 ) तस्यैव विनाशस्यापरजन्मासिद्धेः । परस्माज्जन्म परजन्म। न परजन्मापरजन्म। तस्यासिद्धेः । विनाशस्याहेतुकत्वासिद्धेरिति यावत् ।
तथा ह्यग्निना काष्ठं दग्धं । दण्डेन घटो भग्न इति विनाशहेतवोऽग्न्यादयः काष्ठादीनाम्भावानान्दृश्यन्ते । तथा ह्यग्न्यादिभावे काष्ठादीनां नाशस्तदभावे चानाश इत्यन्वयव्यतिरेकानुविधानं नाशस्यास्ति । एतच्च हेतुतद्वतोर्हेतुमतोर्लक्षणमाहुः। तदुक्तं ।
"अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिं ।
विना, संसर्गितां याति विनाशो न घटादिभिरिति ( 1 ) *
नेत्यादिना प्रतिषेधति । नाग्न्यादयः काष्ठादेविना करणाल्लोके विनाशहेतवः प्रतीयन्ते । किन्तु पूर्वपूर्वस्य काष्ठादिक्षणस्य स्वरसनिरोधे स्वयमेव निरोधे सति । अन्यस्योत्तरस्य क्षणस्य निकृतस्य भस्मादिरूपस्योत्पत्तेरग्न्यादयः काष्ठादीनां विनाशहेतवः प्रज्ञायन्ते न तु विनाशस्य करणात् । कुतः पुनस्तस्य विकृत - स्योत्पत्तिरित्याह । विशिष्टेत्यादि । विशिष्टः प्रत्ययोऽग्न्यादिः सहकारी
तदाश्रयेण ।
अभ्युपगम्या 'पि ब्रूमः ( 1 ) अस्तु वाग्निः काष्ठविनाशहेतुः ( 1 ) स नाशोग्नि- 181b