________________
५१० प्रमाणवात्तिकस्ववृत्तिटीका (११२७२) समारोपप्रतिभासिन्या बुद्धरयं विभ्रमः स्यादानुपूर्वीति। सा च कथमपौरषेयी बुद्धिविठपनप्रत्युपस्थानाद् ।
(ङ) निर्हेतुको विनाशः ... अपि चात्यंतिकस्य कस्यचित् स्वभावस्याभावाद् भवता ध्वनिनाऽनात्यन्तिकेन भवितव्यं । स चाहेतुकोन्यहेतुको वा। नित्यं भवेन्न च पुरुषव्यापारात् (1)
तस्मात् पौरुषेय
36b
कथमिदं गम्यतेऽनात्यन्तिको ध्वनिरन्यो वा भाव इति। ___ सत्तामात्रानुबन्धित्वान्नाशस्यानित्यता ध्वनेः ॥
न हि नाशो भावानां कुतश्चिद् भवति । तद् भावस्वभावो भवेद् भावस्यैव स्वहेतुभ्यः तद्धर्मणो भावात्।
विकल्पानतिक्रमात् । तस्मावतद्रूपेषु वस्तुभूतभिन्नानुपूर्वीरहितेषु वर्णेषु तद्रूपसमारोपप्रतिभासिन्या आनुपूर्वीसमारोपप्रतिभासिन्या बुद्धेरयम्विभ्रमः स्यादा
नुपूर्वीति । सा चानुपूर्वी क्रथमपौरुषेयी पौरुषेय्येव। किं कारणं (1) बुद्धविठं 18ra (?)पनेन व्यापारेण प्रत्युपस्थापनात्। सन्दर्शितत्वात् ।'
अपि चात्यन्तिकस्य नित्यस्य कस्यचित्स्वभावस्याभावात् । भवता विद्यमानेन ध्वनिना शब्देनावश्यमनात्यन्तिकेनास्थिरेण भवितव्यं । स च ध्वनिरहेतुकः स्यात् । पुरुषव्यतिरेकेणान्यो हेतुरस्येत्यन्यहेतुको वा। तत्राहेतुकत्वे नित्यम्भवेत् । अन्यानपेक्षणात्। अन्यहेतुकत्वे तु न च पुरुषव्यापाराद् भवेत्। भवति च पुरुषव्यापारात्। तस्मात् पौरुषेय इति गम्यते।
कथमित्यादि परः। अनात्यन्तिको ध्वनिरन्यो वा पृथिव्यादिकाभाव इति । कथमिदं गम्यते।
सत्तेत्या चा यः। नाशस्य सत्तामात्रानुबन्धित्वात् । कारणादनित्यता ध्वनः। सन्नित्येव कृत्वा नाशो भवति न कारणान्तरमपेक्षते। संश्च शब्दः। तस्मान्न नित्य इति समुदायार्थः।
कस्मात सत्तामांत्रानुबन्धी विनाश इत्याह । न हीत्यादि। यस्मान भावानां नाशो नाम धर्मान्तरं कुतश्चिन्नाशकारणाद् भवति ।
यत एवं (1) तदिति तस्माद् भावस्वभाव एव नाशो भवेत् । कुत एतद् (।) भावस्यैव स्वहेतुभ्यः सकाशात् तद्धर्मणो विनाशधर्मणो भावादुत्पत्तेः। एकक्षणस्थितिधर्मकत्वमेव विनाशः (1) तच्च हेतुभ्य एवोत्पद्यत इति यावत् ।