________________
७. अपौरुषेय-चिन्ता
५०६
स च भावः प्रत्यक्षः (0) अभावोप्यनुपलब्धिलक्षणप्रत्यक्षसामर्थ्यसिद्ध इति वक्ष्यामः। तत. एव पुरुषकार्यता बुद्धीनामनुमेयान्वयव्यतिरेकलिंगत्वावस्याः (1)
आनुपूर्व्याश्च वर्णेभ्यो भेदः स्फोटेन चिन्तितः ।। . कल्पनारोपिता सा स्यात् कथं वा (s)पुरुषाश्रया । (२७१) वर्णव्यतिरेकिण्यानुपूर्वी स्फोटविचारानुक्रमेणव प्रतिविहिता (1) नापि सा वर्णस्वभावा। वर्णस्वभावस्य एतद्विकल्पानतिक्रमात्। अतद्रूपेषु तद्रूप
पुरुष इति व्यवहारलाघवार्थं कृतसंकेतेभ्यः। एतत्स्वमतेनोक्तं। पुरुषगुणेभ्यो वेति व्यतिक्रम्य पुरुषस्य गुणेभ्यः। एतत्तु परमतेनोक्तं । तस्मात् मनस्कारादिभ्य उत्पद्यमानाया बुद्धेः कार्यत्वं प्रत्यक्षसिद्धमिति तस्या अपौरुषेयत्वे साध्ये प्रत्यक्षबाधा। __ स्यान्मतं (1) कार्यताया अप्रत्यक्षत्वान्न प्रत्यक्षबाधेति चेदाह। नन्वित्यादि । कारणाभिमतस्य भाव एव भावः तदभावे चाभाव इत्येतौ भावाभावविशेषौ । ताभ्यां नान्या कार्यता भावस्य (1) स यथोक्तो भावः प्रत्यक्षसिद्धः। तदभावे त्वभाव: कथं प्रत्यक्षसिद्ध इति चेदाह। अभावोपि। अनुपलब्धिरेव लक्षणं स्वभावो यस्याभावस्येति विग्रहः सोपि प्रत्यक्ष सामर्थ्य सिद्ध इत्युत्तरत्र वक्ष्यामः। तदन्यविविक्तरूपम्भावमेव प्रतिपादयत् प्रत्यक्षं सामर्थ्यादभावं गमयतीति सामर्थ्यग्रहणं कृतं। यतश्च मनस्कारादिभावाभावाभ्यां बुद्धिभावाभावौ। तत एव तद्भावभावित्वात् पुरुषकार्यता बुद्धीनामनुमेया। किं कारणम् (1) अन्वयव्यतिरेकलिंगत्वावस्याः कार्यतायाः। तदनेनानुमानबाधोक्ता।
अथ स्यान्न व्यक्ति क्रमो वाक्यं । किन्तु वर्णानुपूर्वी वाक्यमित्यत आह। किं चेत्यादि। वर्णेभ्यः सकाशादाना भेदः स्फोटे ने ति पूर्वोक्तेन स्फोटविचारेण। अभिन्नापि प्रागेव निषिद्धा (1) भेदाभेदं च मुक्त्वा वस्तुनो नान्या गतिरस्ति। तदा च व्यापिनाम्वर्णानामानुपूर्वी कल्पनारोपिता स्यात् । कथं वा तदानीमपुरुषाश्रया। पुरुषाश्रयैव स्यात्। .
वणेत्यादिना व्याचष्टे। वर्णेभ्यः सकाशाद् व्यतिरेकिणी भिन्नस्वभावानुपूर्वी। पूर्वोक्तेन स्फोटविचारानुक्रमेणैव प्रतिविहिता। ___ वाक्यन्न भिन्नम्वर्णेभ्यो विद्यतेनुपलम्भनाद् (1) इत्यादिना दूषणेनानुपूर्व्यपि प्रतिक्षिप्ता।
नापि सा वर्णस्वभावा। सरो रस इति प्रतिपत्तिभेदभावप्रसङ्गात् । न चापि सा तत्त्वान्यत्त्वाभ्यामवाच्या। वस्तुस्वभावस्यैतद्विकल्पान तिक्रमात् । तत्त्वान्यत्त्व